________________
स्थानं ३ - उद्देशकः -४
·
१८७
पsिहन्निज्जा लुक्खत्ताते वा पडिहन्निजा लोगंते वा पडिहन्निज्जा
वृ. 'तिविहे ' इत्यादि, पुद्गलानाम् अण्वादीनां प्रतिघातो- गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत - गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धम्र्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह
मू. (२२६) तिविहे चक्खू पं० तं०- एगचक्खू बिकक्खू तिचक्खू, छउमत्ये णं मणुस्से एगचक्खू देवे बिचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खूत्ति वत्तव्वं सिता
वृ. 'तिविहे ' इत्यादि, प्रायः कण्ठ्यं, चक्षुः- लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः, स च त्रिविधः चक्षुः सङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्नकेवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं चश्रुतावधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति-वहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्त वस्तूनि, केवली त्विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह
मू. (२२७) तिविधे अभिसमागमे पं० तं०-उड्डुं अहं तिरियं, जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्डममिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्नत्ते समणाउसो !
'तिविहे' इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया तथा आ-मर्यादया गमनमभिसमागमो वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह- 'जया ण 'मित्यादि, 'अइसेस' त्ति शेषाणि छद्मस्थज्ञानानान्यतिक्रान्तमतिशेषं ज्ञानदर्शनं तच्च परमावधिरूपमिति सम्भाव्यते, केवलस्य न क्रमेणोपयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवद्यं स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्यां 'उहंति' ऊर्ध्वलोकमभिसमेति समवगच्छति जानाति ततस्तिर्यगिति - तिर्यग्लोकं ततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति । अनन्तरमभिसमागम उक्तः, स च ज्ञानं तच्चद्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात्
तभेदानाह
मू. (२२८) तिविधा इष्ड्डी पं० तं०-देविड्डी राइड्डी गणिड्डी १, देविहतिविहा पं० तं०-विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी २, अहवा देविड्डी तिविहा पं० तं०-सचित्ता अचित्ता
मीसिता ३,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org