SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ - - स्थानाङ्ग सूत्रम् १/२ किञ्च-विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैवप्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद, अन्यथा नकिञ्चनापि वस्तुसिध्येदिति।भवतु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्यलिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपिनासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, केयमनुपलभ्यमानता?,किमेकपुरुषाश्रिता सकलपुरुषाश्रितावा?, यद्येकपुरुषाश्रितानतयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनितस्याः सम्भवात्, न हि कस्यचित्पुरुषविशेषस्यघटाद्यर्थग्राहकंप्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो इष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न सर्वज्ञेन सर्वेपुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति, ___किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, न चायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद्गम्यतएव, आत्मा हि ज्ञानादनन्यः,आत्मधर्मात्वात् ज्ञानस्य, तस्यचस्वसंविदितरूपत्वात्, स्वसंविदितत्वञ्चज्ञानस्यनीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञानेस्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मागुणीप्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, ॥१॥ (उक्तञ्च) -- "गुणपच्चक्खत्तणओ गुणी विजीवो घडोव्व पञ्चक्खो। घडओव्व धिप्पइ गुणी गुणमित्तग्गहणओ जम्हा" (तथा)॥१॥ "अन्नोऽनन्नो व गुणी होज गुणेहिं ?, जइ नाम सोऽनन्नो। नाणगुणमित्तगहणे धिप्पइ जीवो गुणी सक्खं ॥२॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पन्चक्खा। गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं? "त्ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ताजीव इति, नन्वोदनकर्तृवन्मूर्तआत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च॥१॥ "जो कत्तादि सजीवो सज्झविरुद्धत्तिते मई हुज्जा। मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥"त्ति, नचायमेकान्तो, यदुत-लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेनानुमानस्यैव एकान्ततोऽ. प्रवृत्तिरिति, हसितादिलिङ्गविशेषस्यग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात, न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तञ्च॥१॥ “सोऽनेगंतो जम्हा लिंगेहि समं अदिट्ठपुव्वोवि। महलिंगदरिसणातो गहोऽणुमेयो सरीरंमि" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy