________________
स्थान-१, -उद्देशकः
१७
इति, आगमगम्यत्वं त्वात्मनः ‘एगे आया' अत एव वचनात्, नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्चआत्माभावेजातिस्मरणादयस्तथाप्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौचनप्राप्नुयुरिति
आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यं, निरवयवत्वेतुहस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाधुनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा प्रत्यवयवं चैतन्यलक्षणतद्गुणोपलम्भात्, प्रतिग्रीवाद्यवयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मेति, अथवा एक आत्माकथञ्चिदिति, प्रतिक्षणंसम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्वपरपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च॥१॥ "नहि सव्वहा विनासो अद्धापज्जायमित्तनासंमि।
___ सपरपज्जायानंतधम्मुणो वत्थुणो जुत्तो" त्ति, किञ्च-'प्रतिक्षणं क्षयिणो भाव' इत्येतस्माद्वचनात्प्रतिपाद्यस्ययक्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सद्ध्यातीतसमयसम्भूतं, सङ्ख्यातानि चाक्षराणि पदं, सङ्घयातपदं च वाक्यं, तदर्थग्रहणपरिणामाच सर्वं क्षणभङ्गुरमिति विज्ञानं भवेत, तच्चायुक्तं समयनष्टस्येति, ॥१॥ (आह च)-"कह वा सव्वं खणियं विनायं?, जई मई सुयाओत्ति।
तदसंखसमयसुत्तत्यगहणपरिणामओ जुत्त ॥२॥ नउ पइसमयविनासे जेणेक्केकक्खरंपिय पयस्स।
संखाईयसमयइयं संखेज़ाइं पयं ताई संखेजपयं वकं तदत्थगहणपरिणामओ होना ।
सव्वखणभंगनाणं तदजुत्तं समयनदृस्स "इति, तथा सर्वथोच्छेदेतृत्यादयोन घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषांयुज्यमानत्वाद, आह च-- ॥१॥ "तित्तीसमो किलामो सारिक्खविवक्खपचयाईणि ।
अज्झयणं झाणं भावनाय का सव्वनासंमि?" त्ति, तत्र तृप्तिः-ध्राणिः श्रमः-अध्वादिखेदः क्लमो-ग्लानिः साद्दश्य-साधर्म विपक्षो-वैधर्म्य प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षयानित्योनित्यत्वाच्चैकः भवनभङ्गरूपापेक्षयात्वनित्यः अनित्यत्वाचानेक इति, आह च॥१॥ “जमणंतपञ्जयमयं वत्थु भवणं च चित्तपरिणामं ।
ठिइविभवभङ्गरूवं निच्चानिच्चाइ तोऽभिमयं" ति, ॥२॥ (एवं च) "सुहदुक्खबंधमोक्खा उभयनयमयानुवत्तिणो जुत्ता।
एगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति"त्ति, अथवा-एक आत्मा कथञ्चिदेवेति, यतोजैनानांनहिसर्वथा किञ्चिद्वस्तुएकमनेकं वाऽस्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org