________________
स्थान-१,- उद्देशकः
१५
एवंप्रतिसूत्रंस्वयमनुसरणीयं, वयंतुसंक्षेपार्थक चित्किञ्चिदेव भणिष्यामइति।।यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह___ मू. (२) एगे आया।
वृ. एकोन योदिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वचनादतोधातोर्गत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतंजानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावेचाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात, एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्गइति, अथवाअततिसततंगच्छतिस्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वग्रसङ्गादिति, नैवं, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्,
- जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि-द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः,प्रदेशार्थतयात्वनेकत्वमसङ्घयेयप्रदेशात्मकत्वात्तस्येति, तत्र द्रव्यंचतदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता-प्रदेशगुणपर्यायाधारता अवयवविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो-निरवयवोंऽशः स चासावर्थश्चेति प्रदशार्थः तस्य भावः प्रदेशार्थता-गुणपर्यायाधारा वयवलक्षणा- र्थतेतियावत्, नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ?,न तावदभिन्नमभेदेहि अवयविद्रव्यवदव-यवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति, भिन्नं चेत् तत्तेभ्यस्तदा किमवयचिद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैतिदेशतोवेति?,यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य?,अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतोवेति?, सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपि देशेषुकथमित्यादिरनवस्था स्यादिति, . अत्रोच्यते, यदुक्तम्-'विकल्पद्वयेन तस्यायुज्यमानत्वा'दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवाएव हि तथाविधैकपरिणामितयाअवयवविद्रव्यतया व्यपदिश्यन्ते, तएव च तथाविधविचित्रपरिणामापेक्षयाअवयवाइति,अवयविद्रव्याभावेतुएतेघटावयवा एतेचपटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था नस्यात्, तथा च प्रतिनियतकार्थिनांप्रतिनियत. वस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत, सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं, केवलंस एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यतेविरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदजपिनसूक्तं, प्रत्यक्षसंवेदनस्यपरमार्थापेक्षयानान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org