________________
१४
स्थानाङ्ग सूत्रम् 9/-19
अथवा 'आमुसंतेणं'तिआमृशताभगवत्पादारविन्दं भक्तितःकरतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि॥१॥ "जहाऽऽहिअग्गी जलणं नमसे, नानाहुतीमंतपयाभिसित्तं ।
एवायरीयं उवचिट्ठएज्जा, अनंतनाणोवगओऽवि संतो"त्ति, यद्वा आउसंतेणंति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्यतदाहविधिनैवो चित्त देशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु ययाकघञ्जित्, यत आह-- ॥१॥ निद्दा विगहा परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं ।
भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ।" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः,सचायातमित्यादिषुदर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्यो-रेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽ-व्ययशब्दस्तृतीयैकवचनान्मतोऽस्मच्छब्दार्थेवर्तत इतिनदोषः अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा?,नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्योभगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभावइति?, किञ्च-शिष्योपदेशकत्वं त्यस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं वस्तुनो नित्यत्वं, वस्तुनः स्वभावा-व्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्,
न,विरुद्धयोःस्वभावयोर्युगपदसम्मवादिति, अथचानित्यमितिपक्षस्तदपिन, निरन्वयनाशे हिश्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिनयमतेनेतिनयद्वारमवतरति, तत्रनैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयोद्रव्यमेवार्थोऽस्तीतिवादितयाद्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्तित्वति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तञ्च॥१॥ “सव्वं चिय पइसमयं उप्पजइ नासए य निचं च ।
__ एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो" त्ति । उक्तः सूत्रस्पर्शिकनिर्युक्तयनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, आराधितञ्च सक्रम भाष्यकारवचनं, तद्यथा
“सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्लेवो । सुत्तप्फासियनिनुत्ति नया य समगं तु वचंति"त्ति,
__ - एतेषां चायं विषय उक्तो भाष्यकारेण॥१॥ "होइ कयत्थो वोत्तुंसपयच्छेयं सुअंसुयानुगमो।
... सुत्तालावगनासो नामाइन्नासविनियोगं ॥२॥ सुत्तप्फासियनित्तिनिओगो सेसओ पयत्याई।
पायं सो चिय नेगमनयाइमयगोयरो होइ"त्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org