________________
स्थान-१,-उद्देशकः
१३
___'एव'मित्यनेन तुभगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अतएव स्ववचनसयप्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा ‘एवमित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्रमाभूदिति, आख्यात मित्यनेन तु नापौरुषेयवचनरूपमिदं, तस्यासम्भवादित्याह, यत उक्तम्॥१॥ "वेयवयणं न माणं अपोरुसेयंति निम्मियं जेण!
इदमचंतविरुद्धं वयणंच अपोरुसेयं च ॥२॥ जंवुधइत्ति वयणं पुरिसाभावे उ नेयमेवंति।
ता तस्सेवाभावो नियमेन अपोरुसेयत्ते" इति, अथवा आख्यातं भगवतेदं, न कुड्यादिनिःसृतं, यथा कैश्चिदभ्युपगम्यते॥१॥ "तस्मिन् ध्यानसमापन्ने, चिन्तारलवदास्थिते ।
निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः"
- इत्यस्यानेनानभ्युपगममाह, यतः॥१॥ 'कुड्यादिनिः सृतानां तु, न स्यादाप्तोपदिष्टता।
विश्वासश्च न तासु स्यात्केनेमा कीर्तिता इति?" समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपि सफलता स्यादिति, यदुक्तम्॥१॥ “भत्तीए जिनवराणं खिज्जंती पुव्वसंचिया कम्मा।
आयरियनमोकारेण विजा मंता य सिझंति" त्ति, नमस्कारश्च भक्तिरेवेति, अथवा 'आउसंतेणं'ति भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः,अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा 'आयुष्मते'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुरियता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं, यथोच्यते कैश्चित्॥१॥ "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः" ॥२॥ (यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!।
अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम्) एवं ह्यनुन्मूलितरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेवस्यात्, निःशेषोन्मूलने हिरागादीनां कुतः पुनरिहागमनसम्भव इति?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-'आवसंतेणं'तिमयेत्यस्यविशेषणं, तत आङितिगुरुदर्शितमर्यादया वसता,अनेन तत्त्वतो गुरुमर्यादावर्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च॥१॥ “नाणस्स होइ भागीथिरयरओ दंसणे चरित्ते य ।
धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥२॥
गीयावासो रती धम्मे, अनाययनवजणं । निग्गहो य कासायाणं, एवं धीराण सासणं" ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org