SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ स्थाना सूत्रम् १/-19 दिना प्रकारेण 'आख्यात मितिआ-मर्यादयाजीवाजीवलक्षणासङ्कीर्णतारूपयाअभिविधिना वासमस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितंआख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत' मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च-- ॥१॥ "किं एत्तो पावयरं ? सम्म अणहिगयधम्मसब्मावो। अन्नं कुदेसणाए कट्ठयरागंमि पाडेइ"त्ति, 'मये त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयं वक्ष्यमाणोग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागमइत्याह, 'आयुष्मनित्यनेनतुकोमलवचोभिः शिष्यमनःप्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च॥१॥ "धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पलायंतो य मनं सीसं चोएइ आयरिओ"त्ति। आयुष्मत्त्वाभिधानं चात्यन्तमालादक, प्राणिनामायुषोऽत्यन्ताभीरत्वाद्, यत उच्यते'सव्वे पाणा पियाउया अप्पियवहा सुहासावादुक्खपडिकूला सव्वेजीविउकामा सव्वेसिं जीवियं पियं"ति, तथा- "तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः। . जीवितार्थे नरास्तेन, तेषामायुरतिप्रियतम्" इति, अथवा आयुष्मन्नित्यनेन ग्रहणधाराणादिगुणवते शिष्यायशास्त्रार्थोदेय इतिज्ञापनार्थं सकलगुणाधारभूत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्॥१॥ वुढेऽवि दोणमेहे न कण्डभूमाउ लोट्टए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिमि" विपर्यये तु दोष इति, आह च- । ॥१॥ “आयारिए सुत्तम्मि य परिवाओ सुत्तअत्यपलिमंथो। अनेसिपि यहाणी पुट्ठावि न दुद्धदा वंझा" इति, तथा 'तेनो' त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, भगवते त्यनेनतुप्रस्तुताध्ययनस्योपादेयतामाह,अतिशयवान् किलोपादेयः, तद्वचनमपितथेति, अथवा तेणं तिअनेनोपेद्धातनिर्युक्त्यन्तर्गत निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपिदर्शितः, इदंहिभगवदाख्यांतग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यतः॥१॥ “सिद्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy