________________
स्थानं -१,- उद्देशकः
११
सूत्रानुगमएवोच्यते, तत्रच अल्पग्रन्थमहार्थादिसूत्रलक्षणोपेतंस्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चेदम्
मू. (१) सुयं मे आउसं! तेणं भगवता एवमक्खायं। वृ.अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:॥१॥ “सुत्तं १ पयं २ पयत्थो ३ संभवतो विग्गहो ४ वियारो ५
दुसियसिद्धी ६ नयमयविसेसओ नेयमनुसुत्तं" तत्र सूत्रमिति संहिता, साचानुगतैव, सूत्रानुगमस्यतद्रूपत्वादिति, आहच-“होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगमोत्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमायचपदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था॥१॥ “जत्थ उजं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं।
जत्थवि य न जाणेजा चउक्कयं निक्खिवे तत्थ " त्ति, तत्र नामश्रुतं स्थापनाश्रुतंचप्रतीतं, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'आउसं'ति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा ॥१॥ “नाम १ ठवणा २ दविए ३ ओहे ४ भवं ५ तब्भवे य ६ भोगे य७।
संजम ८ जस ९ कित्ती १० जीवियं च तं भन्नती दसहा" तत्र नामस्थापने क्षुण्णे 'दविए'त्तिद्रव्यमेव सचेतनादिभेदंजीवितव्यहेतुत्वान्जीवितं द्रव्य जीवितं, ओघजीवितंनारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तब्भवे यत्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्मवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितंच यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमायुषा यशःकीर्त्यायुषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति॥
उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रुतम्-आकर्णितं 'मे' मया आउ'ति आयुः-जीवितंतत्संयमप्रधानतया प्रशस्तंप्रभूतंवा विद्यतेयस्यासावायुष्मांस्तस्यामन्त्रणं हेआयुष्मन :-शिष्य! तेणं' तियः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिध्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मोमध्यमाभिधानंपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एव मित्यमुना वक्ष्यमाणेनैकत्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org