SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ स्थानं -३, - उद्देशकः -४ १८५ मू. (२२१) नेरइयाणं ततो सरीरगा पं० तं०-वेउब्बिते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं० तं०-एवं चेव, एवं सब्वेसिं देवाणं, पुढविकाइयाणं ततो सरीरगा पं० तं०ओरालिते तेयए कम्मते, एवं वाउकाइयवजाणं जाव चउरिदियाणं। वृ. 'नेरइयाण मित्यादि, दण्डकः कण्ठ्यः , किन्तु 'एव सब्बदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं 'वाउकाइयवञ्जाणंति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेव पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह मू. (२२२) गुरुं पडुच्च ततो पडिनीता पं० तं०-आयरियपडिनीते उवज्झायपडिनीते थेरपडिनीते १, गतिं पडुछ ततो पडिनीया पं० तं०-इहलोगपडिनीए परलोगपडिनीए दुहओ लोगपडिनीए २, समूहं पडुच्च ततो पडिनीता पं० तं०-कुलपडिनीए गणपडिनीए संघपडिनीते ३, अनुकंपं पडुच्च ततो पडिनीया पं० २०-तवस्सिपडिनीए गिलाणपडिनीए सेहपडिनीए ४, भावं पडुच्च ततो पडनीता पं० तं०-नाणपडिनीए सणपडिनीए चरित्तपडिनीए ५, सुयं पडुछ ततो पडिनीता पं० तं०-सुत्तपडिनीते अस्थपडिनीते तदुभयपडिनीए ६ । वृ. 'गुरु'मित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति-अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीकाः-प्रतिकूलाः, स्थविरो जात्यादिभिः, तत्प्रत्यनीकता चैवम्॥१॥ “जच्चाईहि अवन्नं विभासइ वट्टइ नयाविउववाए। अहिओ छिद्दप्पेही पगासवादी अननुलोमो' ॥२॥ अहवावि वए एवं उवएसं परस्स देति एवं तु। दसविहवेयावच्चे कायव्व सयं न कुव्वंति" इति, गतिः-मानुषत्वादिका तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरंत प्रत्यनीकः इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकीर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः परलोकोनारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तुतद्वितथप्ररूपणेति, कुलंचान्द्रादिकंतत्समूहोगणः कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषां अवर्णवादादिभिरिति, कुलादिलक्षणं चेदम्॥१॥ 'एत्थ कुलं विन्नेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥२॥ सव्वोऽवि नाणदंसणचरणगुणविभूसियाण समणाणं। समुदायो पुण संघो गुणसमुदाओत्तिकाऊणं' अनुकम्पाम्-उपष्टम्मंप्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः, शैक्षःअभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावःपर्यायः, सचजीवाजीवगतः, तत्रजीवस्य प्रशस्तोऽप्रशस्तश्च, तत्रप्रशस्तः क्षायिकादिः,अप्रशस्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy