SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८३ स्थानं-३, - उद्देशकः-४ सातिरेकपञ्चाशीतियोजनसहनप्रमाणत्वादिति, स्वयंम्भूरमणो महान् सुमेरोरारभ्यतस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात्, तेषांतस्य चक्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणवादिति, ब्रह्मलोकस्तु महान्, तपदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतयां च विवक्षितत्वात्ब्रह्मलोकस्येति।अनन्तरंब्रह्मलोककल्प उक्तइति कल्पशब्दसाधात् कल्पस्थिति त्रिधाऽऽह मू. (२२०) तिविधा कप्पठिती पं०, तं-सामाइयकप्पठिती छेदोवट्ठावणियकप्पाहिती निविसमाणकप्पट्टिती ३, अहवा तिविहा कप्पट्टिती पं० तं०-निविट्ठकप्पद्विती जिणकप्पठिती थेरकप्पठिती ३॥ वृ.सूत्रद्वयं व्यक्तं, केवलं समानि-ज्ञानादीनि तेषामायो-लाभः समायः सएव सामायिकसंयमविशेषस्तस्य तदेव वा कल्पः-करणमाचारः, यथोक्तम्॥१॥ “सामर्थ्य वर्णनायांच, करणे छेदने तथा । औपम्ये चाधिवासेच, कल्पशब्दं विदुर्बुधाः" इति सामायिककल्पः, सच प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्मावात्, मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थितिःमर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरणे वन्दनकदाने च नियमलक्षणा शुक्लप्रमा णोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकर्मिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे २ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चानियमलक्षणा चेति, अत्रोक्तम्॥१॥ “सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजेट्टे य २। किइकम्मस्सय करणे ४ चत्तारि अवट्ठिया कप्पा ॥२॥ आचेलु १२ कुट्टैसिय २ सपडिक्कमणे य ३ रायपिंडे य४। मासं ५ पज्जोसवणा ६छप्पेअणवट्ठिया कप्पा" -तत्राचेलकत्वमेवम्॥१॥ "दुविहो होइ अचेलो असंतचेलो य संतचेलोय । तत्य असंतेहिं जिणा संताऽचेला भवे सेसा ॥२॥ सीसावेढियापोत्तं नइउत्तरणंमि नग्गयं बेति। जुन्नेहि नग्गियम्हि तुर सालिय ! देहि मे पोत्तिं जुन्नेहिं खंडिएहिं असव्वतणुयाउएहिं न य निच्छं । संतेहिवि निग्गंथा अचेलया होति चेलेहिं" इत्यादि, तथा पूर्वपय्यार्यच्छेदेनोपस्थापनीयम्-आरोपणीयं छेदोपस्थापनीयं, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तस्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यंपालनलक्षणेति, तथाहि॥१॥ "दंसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिनस्स । एसो धुयरयकप्पो दसठाणपइडिओ होइ" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy