SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० स्थानाङ्ग सूत्रम् ३/४/२१६ सिक्खावित्तए ३, उवट्ठावित्तए ४, संभुंजित्तते ५, संवासित्तते ६, । वृ. 'तओ' इत्यादि कण्ठ्यं, किन्तु 'पण्डकं' नपुंसकं, तच लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य॥१॥ “महिलासहावो सरवन्नमेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि "त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु 'वाहिय'त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीब:असमर्थः, स च चतुर्द्धा-ष्टिक्लीबशब्दक्लीबादिग्धक्लीबनिमन्त्रणक्लीवभेदात्, तत्र यस्यानुरागतो विवाद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो, यस्तु विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीयश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजियतुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं च 119 11 ॥२॥ "जिनवयणे पडिकुटुं जो पव्वावेइ लोभदोसेणं । ** चरणडिओ तवस्सी लोवेइ तमेव उ चरितं 119 11 - इति, इह त्रयो ऽप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह"बाले वुड्ढे नपुंसे य, जड्ढे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदंसणे दासे दुडे मूढे, अणत्ते जुंगिए इय । ओबद्धए य भयए, सेहनिप्फेडिया इय गुव्विणी बालवच्छाय, पव्वावेउं न कप्पइ "त्ति, अदंसणो-अन्धः अणत्तो ऋणपीडितः जुंगिओ-जात्यङ्गहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहनिप्फेडिआ अपहत इति, 'एव' मित्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रव्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च 119 11 "पव्वाविओ सियत्ति, मुंडावेउं अनायरणजोगी । अहवा मुंडाविन्ते दोसा अनिवारिया पुरिमा" इति, एवं शिक्षयितुं - प्रत्युपेक्षणादिसामाचारी ग्राहयितुं, तथा उपस्थापयितुं महाव्रतेषु व्यवस्थापयितुं, तथा सम्भोक्तुम् उपध्यादिना, एवमनाभोगात्संभुक्ताश्च संवासयितुम् - आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । कथञ्चित् संवासिता अपि वाचनाया अयोग्याः न वाचनीया इति, तानाह - यू. (२१७) ततो अवायणिजा पं० तं०- अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, तं० - विणीए अविगतीपडिबद्धे विउसिंयपाहुडे । तओ दुसनप्पा पं० तं०-दुट्टे मूढे चुग्गाहिते, तओ सुसन्नप्पा पं० तं० अदुट्टे अमूढे अवुग्गाहिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy