SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ 119 11 स्थानाङ्ग सूत्रम् ३/३/२०४ “पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेद: " इति, अनाश्रवो नवकर्मानुपादानम्, अनाश्रवणाल्लघुकर्म्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं-पूर्वकृतकर्म्मवनलवनं 'दापू लवने' इति वचनात् कर्म्मकचवरशोधनं वा दैप शोधन' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाणं- कर्मकृतविकाररहितत्वं सिद्धयन्ति - कुतार्था भवन्ति यस्यां सा सिद्धि: - लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं - सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यावसानफलं प्रज्ञप्तं मया अन्यैश्च केवलिभिः, [हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानमन्त्रयन्निदमुवाचेति ] स्थानं - ३ - उद्देशक:- ३ समाप्तः -: स्थानं - ३ - उद्देशक:- ४ : वृ. व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थं आरभ्यते, अस्य चायमभिसम्बन्धः - पूर्वस्मिन् उद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं 'पडिमे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरूच्यत इत्येवं सम्बन्धितस्यास्य व्याख्या मू. (२०५) पडिमापडिवन्नस्स अनगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०अहे आगमणiिहंसि वा अहे वियडंगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमनुन्नवित्तते, उवातिनित्तते, पडिमापडिवन्नस्स अनगारस्स कप्पंति तओ संधारगा पडिलेहित्तते, तं०- पुढविसिला कट्ठसिला अहासंथडमेव, एवं अनुन्नवित्तए उवाइनित्तए वृ. 'प्रतिमां' मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्ते' युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रयाःवसतयः प्रत्युपेक्षितुम् - अवस्थानार्थं निरीक्षितुमिति, 'अहे' त्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं-सभाप्रपादि, यदाह || 9 || "आगन्तु गरत्थजणो जहिं तु, संठाइ जं वाऽऽगमणंमि तेसिं । तं आगमो किं तु विदू वयंति, सभापवादेउलमाइयं च " इति, तस्मिन् उपाश्रयः तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियडं'ति विवृतम् अनावृतं, तत्र द्वेधा-अध ऊर्द्धं च तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्धविवृतं तदेव गृहं विवृतगृहम्, उक्तं च 119 11 "अवाउडं जं तु चउद्दिर्सिपि, दिसामहो तिन्नि दुवे य एक्का । अहे भवे तं वियडं गिहं तु, उड्डुं अमालं च अतिच्छदं च" त्ति, तस्मिन्वा, तथा वृक्षस्य करीरादेर्निर्गलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिने वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम् - एवं 'मिति, एतदेव 'पडिमापडिवन्ने' त्याद्युच्चारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy