SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १७१ स्थान- ३, - उद्देशकः -३ ___ - इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्तं च-- ॥१॥ “दयादानक्षमाधेषु, धर्माङ्गेषु प्रतिष्ठिता। धर्मोपादेयतागर्मा, बुधैर्धर्मकथोच्यत" ॥२॥ (तथा-) "धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम्" ____ -इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, यदाह॥१॥ "कामोपादानगर्भाच, वयोदाक्षिण्यसूचिका। अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता" ॥२॥तथा-"स्मितं न लक्षण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हदयोपगूहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम्" इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णरूपा वा, अर्थादिविनिश्चयाः-अर्थादिस्वरूपपरिज्ञानानि, तानि च॥१॥ "अर्थानामर्जने दुःखमर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम्" ॥२॥ (तथा-) “धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः" ॥३॥ (तथा-) “शल्यं कामा विषं कामाः, कामा आशीविषोपमाः। कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम्" इत्यादीनि । अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गो भगवत्प्रश्नद्वारेण निरूपयन्नाह म.(२०३)तहारूवंणं भंते! समणवामाहणंवा पज्जवासमाणस्स किंफला पञ्जवासणता सवणफला, सेणं भंते ! सवणे किंफले?, नाणंफले से णं भंते ! नाणे किंफले?, वित्राणफले, एवमेतेणं अभिलावेणं इमा गाथा अनुगंतव्वा वृ. 'तहासवेत्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवोहिधर्मकथादिकंस्वाध्यायं कुर्वन्तीति श्रवणंतत्सेवायां भवतीति, ज्ञानं श्रुतज्ञानविज्ञानम्अर्थादीनां हेयोपादेयत्वविनिश्चयः, ‘एव मिति पूर्वोक्तेनाभिलापेन 'सेणं भंते! विन्नाणे किंफले पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः म. (२०४) सवणे नाणे य विन्नाणे पञ्चक्खाणे य संजमे। अणण्हते तवे चेव चोदाणे अकिरिय निव्वाणे [जाव सेणंभंते ! अकिरिया किंफला?, निव्वाणफला, सेणंभंते! निव्वाणे किंफले?, सिद्धिगइगमणपञ्जवसाणफले पन्नत्ते, समणाउसो!1] वृ. 'सवणे इत्यादि, भावितार्था, नवरम्प्रत्याख्यानं-निवृत्तिद्वारेण प्रतिज्ञानकरणं संयमःप्राणातिपाताधकरणम्, उक्तंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy