________________
१६९
स्थानं - ३ - उद्देशकः -३
'अन्नाणे'त्यादि, ज्ञानंहि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्तं मिध्यात्वं तच्चाधर्म्म इति तद्विपर्ययमधुना धर्ममाह
,
मू (२०१) तिविहे धम्मे पं० तं० सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे, तिविधे उवकमे पं० तं०-धम्पिते उवक्कमे अधम्मिते उवक्कमे धम्मिताधम्मिते उवक्कमे १, अहवा तिविधे उपक्कमे पं० तं०-आओवक्कमे परोवक्कमे तदुभयोवक्कमे २, एवं वेयावचे ३, अनुग्गहे ४, अनुसट्ठी ५, उबालंभं ६, एवमेक्केके तिन्नि २ आलावगा जहेव उवक्कमे
घृ. 'तिविहे धम्मे' इत्यादि श्रुतमेव धर्म्मः श्रुतधर्म्मः स्वाध्यायः, एवं चरित्रधर्म्मःक्षान्त्यादिश्रमणधर्म्मः, अयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म्म उक्तः, यदाह119 11 “दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओचरित्तधम्मो समणधम्मो ।' इति,
अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्म्मश्चेत्यस्तिकायम, गत्युपष्टम्भलक्षणो धम्र्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म्म इति । अनन्तरं श्रुतधर्म्मचारित्रधर्म्मायुक्त अधुना तद्विशेषानाह
,
'तिविहे उवक्कमे' इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमः उपायपूर्वक आरम्भः धर्मे श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकः अधार्मिकः - असंयमार्थः, तथा धार्मिकश्ञ्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवसंयमरूपत्वात् धार्मिकाधार्मिकः, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड्विध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा सचित्ताचित्तमिश्रद्रव्यभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः पुनरेकैको द्विविधः परिकर्माणि वस्तुविनाशे च तत्र परिकर्म्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम्, एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्युपटाकादिना वैमल्यापादानं विनाशश्चेति, मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य - शालिक्षेत्रादेः परिकर्म्म विनाशो वा क्षेत्रोपक्रमः तथा कालस्य चन्द्रोपरागादिलक्षणस्योपक्रमः- उपायेन परिज्ञानं कालोपक्रमः, तथाभावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोड्डिनीगणिकाऽमात्यष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति,
एवं च धार्मिकस्य संयतस्य यश्चारित्राद्यर्थं द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रमः, तथा अधार्मिकस्य - असंयतस्यासंयमार्थं यः सोऽधार्मिक एव, तथा धार्म्मिकाधार्मिकस्य-देशविरतस्य यः स धार्मिकाधार्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो - चैहानसादिना विनाशः परिकर्म्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org