SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ स्थानाङ्गसूत्रम् ३/३/२०० अाणकिरिया ५, अविणते तिविहे पं० २०-देसघाती निरालंबणता नाणापेजदोसे ६, अन्नाणे तिविधे पं० २०-देसन्नाणे सव्वन्नाणे भावनाणे ७ वृ. 'तिविधेमिच्छत्ते' इत्यादि, सूत्राणिसप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितं, प्रयोगक्रियादीनां वक्ष्यमाणतझैदानां असम्बद्धमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपतामिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभवनत्वमितिभावः, 'अकिरियत्ति नजिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततश्चाक्रिया-दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानं, यथामिध्यादष्टेनिमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञानम्-असम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापिप्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते-व्यापार्यत इति प्रयोगो-मनोवाक्कायलक्षणस्तस्य क्रिया-करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैः-मनःप्रभृतिभिः क्रियते-बध्यत इति प्रयोगकयिा कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, ‘समुदानं'ति प्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतयाचआदान-स्वीकरणंसमुदानंनिपातनात्तदेव क्रियाकर्मेति समुदानक्रियेति, अज्ञानात्वा चेष्टा कर्म वासा अज्ञानक्रियेति २, प्रयोगक्रिया त्रिविधा व्याख्याता ३, नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनीतुपरम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति, मइएअन्नाणकिरिय'त्ति ॥१॥ “अविसेसिया मइत्रिय सम्मद्दिहिस्स सामइनाणं । मइअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव त्ति, ॥१॥ अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव मत्यज्ञानाक्रिया-अनुष्ठानंमत्यज्ञानक्रिया, एवमितरेअपि, नवरं विभङ्गो-मिथ्याटेरवधिः स एवाझानं विभङ्गाज्ञानमिति । व्याख्यातमक्रियामिथ्यात्वं, अविनयमिथ्यात्वव्याख्यानायाह'अविणये'त्यादि, विशिष्टो नयो विनयः-प्रतिपत्तिविशेषः तप्रतिषेधानविनयः, देशस्यजन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत आलम्बनाद्-आश्रयणीयात् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्मावो निरालम्बनताआश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेनवोचितप्रतिपत्तिभ्रंशः, प्रेमच द्वेषश्च प्रेमद्वेषं नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वाप्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्, उक्तं च॥१॥ “सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनमन्त्रमूलं वशीकरणम्" । इति, नानाप्रकारौ चतावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयादविनय इति, अज्ञानमिथ्यात्वमित उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy