________________
स्थानं - ३, - उद्देशक: - ३
चाभोगेऽपि पुराणतयेति, विस्सा - स्वभावः तत्परिता अध्रेन्द्रधनुरादिवदिति । पुद्गलप्रत्सावाद्विस्नसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह - 'तिपइट्ठिए' त्यादि, स्फुटं, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः स्वरूपप्रतिष्ठिताः ।
तठप्रतिष्ठानं नयैराह - 'नेगमे' त्यादि, नैकेन - सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति - परिच्छइनत्तीति नैकमः, अथवा निगमाः- निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः- अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः १, संग्रहणं भेदानां सङगृह्णाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रह - महासामान्यमात्रामभ्युपगमपर इति २, व्यवहरणं व्यवह्नियते वा स व्यववह्रियते वा तेन विशेषेण वा सामान्यमवह्नियते-निराक्रियतेऽनेनति लोकव्यवहारपरी वा व्यवहारोविशेषमात्राभ्युपगमपरः ३, एतेषां नयानां मतेनेति गम्यं, ऋजु अवक्रमभिमुखं श्रुतंश्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु वा अतीतानागतवक्रपरित्यागद्वर्त्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपरः,
शब्यते-अभिधीयतेऽभिधेयमनेनेति शब्दो - वाचको ध्वनिः, नयन्ति- परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः-शब्दसमभिरूढैवंभूताख्याः, तत्र शब्दनमभिधानं शब्द्यते वायः शब्द्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च भावनिक्षेपरूपं वर्त्तमानभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति, वाचकं वाचकं प्रति वाच्यभदं समभिरोहयति आश्रयति यः स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति, यथा शब्दार्थो घटते- चेष्टत इति घट इत्यादिलक्षणः 'एव' मिति तथाभूतः सत्यो घटादिरर्थो नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावानिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टा वन्तं घटमिवेति ७,
१६७
-
तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतं, चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह
119 11
Jain Education International
"वत्युं वसइ सहावे सत्ताओ चेयणव्व जीवम्मि ।
न विलक्खणत्ताणाओ भिन्ने अन्यत्र छायातवे चेव"
इति नरकेषु च मिध्यात्वाद् गतिर्जन्तूनां भवतीति अथवा नया मिथ्याध्श इति सम्बन्धान्मिथ्यात्वस्वरूपमाह
मू. (२००) तिविधे मिच्छत्ते पं० तं०-अकिरिता अविणते अन्नाणे १, अकिरिया तिविधा, पं० तं०-पओगकिरिया समुदानकिरिया अन्नाणकिरिया २, पओगकिरिया तिविधा, पं० तं०मणपओगकिरिया वइप ओगकिरिया कायपओगकिरिया ३, समुदानकिरिया तिविधा पं० तं०अनंतरसमुदानकिरिया परंपरसमुदानकिरिया तदुभयसमुदानकिरिता ४,
अन्नाणकिरिता तिविधा पं० तं०-मति अन्नाणकिरिया सुतअन्नाणकिरिया विभंग
For Private & Personal Use Only
www.jainelibrary.org