SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ स्थानाङ्ग सूत्रम् ३/३/१९८ व्यापारी वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामायिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात्, यत्रोच्यते, “सच्चरमनुट्ठाणं विहिपडिसेहानुगं तत्थ 'त्ति तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादी विषये यो व्यवसायो - बोधोऽनुष्ठानं वा स विषयभेदात् त्रिविध इति, सामायिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति १०, अर्थस्यराजलक्ष्म्यादेर्योनिः- उपायोऽर्थयोनिः साम- प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदोजिगीषतशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयदिः, क्वचित्तु, दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्धयोनयः पठ्यन्ते, भवन्ति चात्र श्लोकाः 11911 'परस्परोपकाराणां दर्शनं १ गुणकीर्त्तनम् २ | 4 सम्बन्धस्य समाख्यान३मायत्याः संप्रकाशनम् ४ ||" -अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननभायतिसंप्रकाशनमिति, - "वाचा पेशलया साधु तवाहमिति चार्पणम् ५ । इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम् ॥” वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृत ॥ स्नेहरागापनयनं १, संहर्षोत्पदनं तदा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥” संहर्षः - स्पर्द्धा सन्तर्जनं च अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदम् 11911 "यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥ द्रव्यदानमपूर्वं च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥ धनोत्सर्गो धनसम्पत् स्वयंग्राहप्रवर्त्तनम् - परस्वेषु देयप्रतिमोक्ष- ऋणमोक्ष इति, प्रयोगश्चासामेवम् 11911 11911 ॥२॥ ॥३॥ ॥२॥ "उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समं तुल्यपराक्रमैः ॥" इति । अनन्तरं जीवा धर्म्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह - मू. (१९९) तिविहा पोग्गला पं० तं० - पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्टिया नंरगा पं० तं०- पुढविपतिट्ठिता आगासपतिट्ठिता आयपइट्ठिता, नेगमसंगहववहाराणं पुढविपइट्ठिया उज्जुसुतस्स आगासपत्तिठ्ठिया तिण्डं सद्दणताणं आयपतिडिया || वृ. प्रयोगपरिणताः - जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कम्र्म्मादिषु वा, 'मीस' त्ति प्रयोगविनसाभ्यां परिणताः, यथा पटपुद्गल एव प्रयोगेण पटतया विनसापरिणामेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy