________________
स्थानं - ३ - उद्देशक:- ३
11911
--
"जं वट्टइ उवगारे उवकरणं तं सि होइ उबगरणं । अइरेगं अहिगरणं अजओ अजयं परिहरतो ।।" भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च" बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ।। कवलाण य परिमाणं कुकुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणंमि छुहेज्ज वीसत्थो ।।"
इति, इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विंशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च
11911
11911
१६३
॥२॥
"अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ १ दुवालस २ सोलस ३ चउवीस ४ तहेक्क्तीसा य ५ ॥"
इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम्- “बत्तीसं कुकुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्वं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे निग्गंधे नो पगामरसभोइत्ति वत्तव्वं सिय"त्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च
119 11
“कोहाईणमनुदि णं चाओ जिनवयणभावनाओ उ । भावेनोमोदरिया पत्ता वीयरागेहिं ।"
उपकरणावमोदरिकाया भेदानाह- 'उवकरणे' त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव. एवं पात्रमपि, 'एगं पायं जिनकप्पियाण' मिति वचनादिति, तथा 'चियत्तेणं' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य 'साइज्जणय'त्ति सेवा 'चियत्तोवहिसाइज्जयण' त्ति ७ । 'चियत्तेणे' ति प्रागुक्तमेतद्विपर्ययभेदान् सकलानाह- 'तओ' इत्यादि स्पष्टं, किन्तु अहिताय - अपध्याय असुखाय दुःखाय अक्षमाय-अयुक्तत्वाय अनिःश्रेयसाय - अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता - आर्त्तस्वरकरणं कक्करणता-शय्योपध्यादिदोषोद्भावनगर्भं प्रलपनं अपध्यानता-आर्त्तरौद्रध्यायित्वमिति ८,
उक्तविपर्ययसूत्रं व्यक्तं ९, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह - 'तओ' इत्यादि, शल्यतेबाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं माया निकृतिः सैवं शल्यं मायाशल्यं १, एवं सर्वत्र, नवरं नितरां दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवद्धर्यादिप्रार्थनपरिणामनिशितासिनेति निदानं मिध्या-विपरीत दर्शनं मिथ्यादर्शनमिति १० । निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह - 'तिही' त्यादि, सङ्क्षिप्ता- लघूकृता विपुलापिविस्तीर्णाऽपि सती अन्यथाऽऽदित्यबिम्बवत् दुर्दर्शः स्यादिति तेजोलेश्या तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्यः आतापनानां शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालाद - न्यत्र 'तपः कर्म्मणा' षष्ठादिनेति, अभिधीयते च भगवत्याम् - "जेणं गोसाला ! एगाए सनहाए कुम्मासपिंडियाए एगेण वियडास छ छट्ठएणं अनिक्खित्तेणं तवोकम्मेणं उहुं बाहाओ पगिज्झिय २ सूराभिमुहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org