________________
१६२
स्थानाङ्गसूत्रम् ३/३/१९५
फलिक-प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये॥७॥ "फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियंज।
भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥" इति, तथा शुद्धम्-अलेपकृतं शुद्धौदनं च, तच तदुपहृतं घेति शुद्धोपहृतं, एतचाल्पलेमपभिधानचतुर्थेषणाविषयभूतमिति, तथासंसृष्टं नाम-भोक्तुकामेनगृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा॥१॥ "सुद्धं च अलेवक्रडं अहवनसुद्धोदनो
ससटुंआऊत्तं लेवाइमलेवाडं वावि ।।" इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तःसाधवो भवन्तीति।।
अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'यदिति भक्तम्, धकाराः समुघयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः क्रूरं गृहीखा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन चणित-मा देहि,अत्रावसरेप्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणित-प्रसारय साधो ! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह घ संयतप्रज्योजने गृहस्थेन हस्त एव परिवर्तितो नान्यत् गमनादि कृतामिति जघन्यमाहृतजातमिति, इह च व्यवहारभाष्यश्लोकः॥१॥ "भुंजमाणस्स उकिवत्तं, पडिसिद्धंतंच तेण उ।
जहन्नोवहडं तं तु, हत्यस परियत्ताण ।।" इति, तथा यच्च परिवेषकः स्थानादिविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तचावगृहीतमिति प्रक्रमः, श्लोकोऽत्र॥१॥ "अह साहीरमाणंतु, वèतो जो उदायओ।
दलज्जाविचलिओ तत्तो, छट्ठी एसाविएसण ॥" इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तनावगृहीतमिति, एवं चात्र वृद्धव्याख्या-क्रूरमवसादननिमित्तं कलिंजादिभाजनेविशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे माजने तत् तृतीयमवगृहीतं श्लोकोऽत्र॥॥ "मुत्तसेसं तुजं भूओ, छुमंती पिठरे दये।
संवहती व अन्नस, आसगंमि पगासए॥" इति, ननुआस्ये-मुखे यत् प्रक्षिपतीतिमुख्यार्थे सति किंपिठरकादिमुखे इति व्याख्यायत इति?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्सामावादिति, आह च “पक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५।अवमम्-ऊनमुदरं-जठरंयस्य सोऽवमोदरः,अवमंवोदरंअवमोदरं तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणभवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्रप्रथमाजिनकल्पिकादीनामेव नपुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो बोनोदरतेति, उक्तं च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org