SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३ - उद्देशकः -३ शब्दादयस्ते च कामभोगास्तेषु मूर्च्छित इव मूर्च्छितो- मूढः, तत्स्वरूपस्यानित्यवादेर्विबोधाक्षमत्वात्, गृद्धः-तदकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित एव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नः - आधिक्येनासक्तो ऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थं बघ्नाति एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् - अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तुस्थिरीभवन्त्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टः प्रकल्पः - आचार सेवत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तस्य मानुष्यकं मनुष्यविषयं प्रेम-स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यंस्वर्गगतवस्तुविषयं सङ्क्रन्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रन्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं'ति तस्यदेवस्य ' एवं 'ति एवंप्रकारं चित्तं भवति, यथा 'इयहि ति इत इदानीं न गच्छामि, 'मुहुत्तं' ति मुहूर्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं' ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः, तस्मिन् वा काले गते, णं शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्यमात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधम्र्मेण - मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयामिति ३, 'इच्चे एही'त्यादिनिगमनं ३ | देवकामेषु कश्चिदमूर्च्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधक-प्रव्राजकादिः अनुयोगाचार्यो वा 'इतिः' एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः- सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं च"तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । - 11911 असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥” इति, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति इति स्थवरिः, उक्तं च "थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । 11911 १५७ जो जत्थ सीइ जई संतबलो तं थिरं कुणइ ॥" ति, गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजा - गरको वा साधुविशेषः, उक्तं च - 11911 "पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी । संगहुवग्गकुसलो सुत्तत्थविऊ गणाहिवई ॥” गणस्यावच्छेदो विभागोऽशोऽस्यास्तीति, यो हि गणेशं गृहीत्वा गच्छोपष्टम्भायैवोपधि मार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च - 11911 “उद्धा वणापहावणखेत्तोदहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ।" इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy