________________
स्थानं - ३ - उद्देशक: -३
वतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह
मू. (१८८) तिविहे वयणे पं० तं० तव्वयणे तदन्नवयणे नोअवयणे, तिविहे अवयणे पं० तं० - नोतव्वयणे नो तदन्नवयणे अवयणे । तिविहे मणे पं० तं०-तम्मणे तयन्नमणे नोअमणे, तिविहे अमणे पं० तं०- नोतंमणे नोतयन्नमणे, अमणे
१५५
वृ. सूत्रचतुष्टयम्, अस्य गमनिका - तस्य विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद्-विवक्षितघटादेरन्यः पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्रं डित्यादिवदिति, अथवा सःशब्दव्युत्पत्तिनिमित्तधर्मविशिथेऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्म्मविशिष्टादन्यः शब्दप्रवृत्तिनिमित्तधर्म्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थो, डित्यादिवत्,
अथवा तस्य- आचार्यादिर्वचनं तद्वचनं तद्वयतिरिक्तवचनं तदन्यवचनं- अविवक्षितप्रणेतृविशेषं नोअवचनं वचनामात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि -नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरोपेक्षयाऽपि नेयम् तस्य- देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः ततो देवदत्ताद् अन्यस्य-यज्ञदत्तादेर्घटनापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रं नोअमन इति, एतदनुसारेणामनोऽ प्यूह्यमिति ।। अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् 'तिही' त्यादिभिरष्टाभिः सूत्रैराह
·
मू. (१८९) तिहिं ठाणेहिं अप्पवुट्टीकाते सिता, तं० तस्सि चणं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्क मंति विउक्कमंति चियंति उववज्रंति, देवा नागा जक्खा भूतानो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवद्दलगं च णं सभुट्टितं परिणतं वासितुकामं वाउकाए विधुणति, इचेतेहिं तिहिं ठाणेहिं अप्पवुट्टिगाते सिता १ ।
तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा-तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्रंति, देवा जक्ख नागा भूता सम्माराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणयं वासिउकामं तं देसं साहरंति अब्भवद्दलचणं समुट्ठितं परिणयं वासितुकामं नो वाउआतो विधुणति, इघेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ २ ।
घृ. सुगमानि चैतानि, किन्तु 'अप्पबुट्टिकाए 'त्ति, अल्पः स्तोकः अविद्यमानो वा वर्षणं वृष्टिः - अध: पतनं वृष्टिप्रधानः कायो- जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्म्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्पश्चासी वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद्' भवेत् तस्मिंस्तत्र-मगधादी, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, 'देशे' जनपदे प्रदेशे-तस्यैवैकदेशरूपे, दाशब्दी विकल्पार्थी, उदकस्य योनयः-परिणामकारणभूता उदकयोनयस्य एवोदकयोनिका- उदकजननस्वभावा 'व्युत्क्रमन्ति' उत्पद्यन्ते 'व्यपक्रमन्ति' च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते क्षेत्रस्वभावादित्येकं,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org