________________
स्थानं - ३ - उद्देशक: -३
भवति यापनामात्रं वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि कलमकाञ्जिकावश्रावणादेः द्राक्षापानकादेर्वा प्रथमा १ षष्ठिका काञ्जिकादेर्मध्यमा २ तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्बोत्कर्षादि नेयमिति !
मू (१८६ ) तिहिं ठाणेहिं समणे निग्गंधे साहम्मियं संभोगियं विसंभोगियं करेमाणे नातिक्क मति, तं०-सतं वा दहुं, सङ्घस्स वा निसम्म, तच्चं मोसं आउट्टति चउत्थं नो आउट्टति
धृ. 'साहंमियं' ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगःसाधूना समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं विसम्भोगो-दानादिभरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन्नातिक्रामतिन लङ्घयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकासमाचारी, तथा 'सङ्घस्स' त्ति श्रद्धा श्रद्धानं यस्मिन् अस्ति सश्राद्धः - श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते 'निशम्य' अवधार्य, तथा 'तच्चं 'ति एकं द्वितीयं यावत् तृतीयं 'मोसं'ति मृषावादं अकल्पग्रहणपार्श्वस्थदानादिना सावद्यविषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, 'आवर्त्तते' निवर्त्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते तं नालोचयति, तस्य दर्पत एव भावादिति, आलोनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वत्रातिक्रमतीति प्रकृतम्, उक्तं च
—
119 11
"एगं व दो व तिन्नि व आउट्टंतस्स होइ पच्छित्तं । आउट्टंतेऽवितओ परिणे तिग्रहं विसंभोगो "
इति एतचूर्णिः स संभोइओ असुद्धं गिव्हंतो चोइओ भणइ संता पडिचोयणा, मिच्छामि दुक्कडं, न पुणो एवं करिस्सामो, एवमाउट्टी जमावन्नो तं पायच्छित्तं दाउ संभोगो। एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं सेविऊण आउट्टंतस्सवि विसंभोगो' इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं तत्र हि चतुर्थवेलायां स विधीयत इति ।
मू. (१८७) तिविधा अणुन्ना पं० तं० -आयरियत्ताए उवज्झायत्ताए गणित्ताए । तिविधा समणुन्ना पं० तं० - आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उवसंपया, एवं विजहणा बृ. 'अणुन्न'त्ति, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च
॥ १ ॥
"पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसेन्ता आयरिया वुच्छंति " (तथा) “सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुझे अत्थं वाएइ आयरिओ " तद्भावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च119 11
॥२॥
Jain Education International
१५३
"संमत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएइ उवझाउ " इति ॥
For Private & Personal Use Only
www.jainelibrary.org