SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ स्थानाङ्ग सूत्रम् ३/३/१८३ वा, तं० - जंगिते भंगिते खेमिते १, कप्पइ निग्गंथाणं वा निग्गंधीण वा २ ततो पायाई घारित्तए या परिहरित्तए वा, तं०-लाउयपादे वा दारुपादे वा मट्टियापादे वा । वृ. 'कप्पती 'ति 'कल्पते' युज्यते युक्तमित्यर्थः, 'धारित्तए' त्ति धत्तु 'परिग्रहे 'परिहत्तु' परिभोक्तुमिति, अथवा 'धारणया उवभोगो, परिहरणे होइ परिभोग' त्ति । 'जंगियं’ जंगमजमौर्णिकादि 'भंगियं अतसीमयं 'खोमियं' कापसिकमिति । अलाबुपात्रकं तुम्बकं, दारुपात्रंकाष्ठमयं मृत्तिकापात्रं-मृन्मयं शराववार्घटिकादि, शेषं सुगमं । वस्त्रग्रहणकारणान्याह - मू. (१८४) तिहिं ठाणेहिं वत्थं धरेजा, तं०-हिरिप्रत्तितं दुर्गुछापत्तियं परीसहवत्तियं । वृ. 'तिहि 'त्यादि, ही लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्साप्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च- 11911 "वेउव्वि वाउडे वाइए य हीरिखद्धपजणणे चेव । एसिं अनुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ" ('वेउब्वि' त्ति विकृते तथा 'अप्रावृत्ते' वस्त्राभावे सति 'वातिके' चउच्छूनत्वभाजने हियां सत्यां 'खद्धे' बृहत्प्रमाणे 'प्रजनने' मेहने 'लिङ्गोदयट्ठ' त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः, ) तथा, 119 11 "तणगहणानलसेवानिवारणा धम्मसुकझाणट्टा । दिट्टं कप्पग्गहणं गिलाणमरणट्टया चेव " -- इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते, "अतरंत बालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो । 11911 " साहारणोग्गहालद्धिकारणा पायगहणं तु ( अतरंतत्ति-ग्लाना आदेशाः प्राघूर्णकाः, 'असहु'त्ति सुकुमारो राजपुत्रादिप्रव्रजितः ‘साधारणावग्रहात्’सामान्योपष्टम्भार्थं अलब्धिकार्थं चेति । निर्गन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह मू. (१८५) तओ आयरक्खा पं० तं०-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उट्ठित्ता वा आताते एगंतमंतवक्कमेज्जा निग्गंथरस णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०-उक्कोसा मज्झिमा जहत्रा बृ. 'तओ आए' त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए पडिचोयणाए' त्ति धार्मिकेनोपदेशेन नेदं भवाध्शां विधातुमुचितमित्यादिना प्रेरयिता - उपदेश भवति अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृ त्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वाचंयम उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविषये उपेक्षणासामर्थ्ये च ततः स्थानादुत्थाय 'आय'त्ति आत्मना एकान्तंविजनं अन्तंभूविभागम- वक्रामेत् गच्छेत् । निर्ग्रन्थस्य ग्लायतः - अशक्नुवतः तृड् वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओ' त्ति तिम्नः 'वियड' त्ति पानकाहारः, तस्य दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्आश्रयितुं वेदनोपशमायेति, उत्कर्षः प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यथा सकृदेव वितृष्णो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy