________________
१५०
स्थानाङ्ग सूत्रम् ३/२/१८०
'तत्र' तेषु 'याऽसावकृता' यत्तदकृतं कर्म्म 'नो क्रियते' न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्म्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह तत्र 'याऽसावकृता क्रियते' यत्तदकृतं - पूर्वमविहितं कर्म भवति दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो- यदि निर्ग्रन्था अपि अकृतमेव कर्म्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृतीयमेव पृच्छन्तीति भावः,
'से' त्ति अथ तेषामकृतकर्मामभ्युपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात्, त एव वा एवमाख्यान्ति परान् प्रति, यदुत - अथैवं वक्तव्यं-प्ररूपणीयं तत्त्ववादिनां स्यात् भवेद्, अकृते सति कर्म्मणि दुःखभावात् अकृत्यम्-अकरणीयमबन्धनीयम् अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं ? - 'दुक्खं' दुःखहेतुत्वात् कर्म, 'अफुस्सं'ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्त्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रियमाणकृतं द्वन्द्वैकत्वं कर्ममधारयो वान क्रियमाणकृतमक्रियमाणकृतं, किं तत् ? -दुःखं कर्म्म 'अकिच्चं दुक्ख मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कज्जइ तं पुच्छं; 'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह- अकृत्वा अकृत्वा कर्म्म प्राणा- द्वीन्द्रियादयः भूताः -तरवो जीवाः-पञ्चेन्द्रियाः सत्त्वाः पृथिव्यादयो, यथोक्तम्
119 11
"प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवा; पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्त्तिताः " इति,
वेदना - पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वक्तव्यं स्यादिति प्रक्रमः ।। एवमन्यतीर्थिकमतमुपदर्श्य निराकुर्वन्नाह - जे ते' इत्यादि, य एते अन्यतीर्थिका एवम् उक्तप्रकारमाहंसुत्ति - उक्तवन्तः 'मिथ्या' असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः 'आहं सु' त्ति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवेन हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह
'अह' मित्यादि 'अहं' ति अहमेव नान्यतीर्थिकाः, पुनः शब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमाइक्खामी 'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म्म, स्पृश्यं स्पृष्टलक्षणबन्धावस्थायोग्यं क्रियमाणं वर्त्तमानकाले कृतमतीते, अकरणं नास्ति कर्म्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह- कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां कर्म्मकृतशुभाशुभानुभूतिं वेदयन्ति अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति स्थानं - ३ - उद्देशकः - २ समाप्तः
-: स्थानं - ३ - उद्देशक:- ३ :
बृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदशके विचित्रा जीवधर्म्माः प्ररूपिताः इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रत्रयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org