SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३ - उद्देशक: -२ नमस्यन्ति प्रणामतः, 'एवम्' अनेन प्रकारेण 'वयासि' त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः उक्तवन्तो नो जानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थी, 'तदिति तस्मादेतमर्थं-किंमयाः प्राणाइत्येवंलक्षणं, 'नो गिलायंति' त्तिन ग्लायन्ति न श्राम्यन्ति परिकथयितुं परिकथनेन 'तं'ति ततः, 'दुक्खभय'त्ति दुःखात् मरणादिरूपात् भयमेषामिति दुःखभया;, 'से 'ति तद् दुःखं 'जीवेणं कडे' त्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह'पमाएणं'ति प्रमादेनाज्ञानादिना बन्धहेतुना करणभूतेनेति, उक्तं च"पमाओ य मुणिदेहिं, भणिओ अट्टभेयओ । अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ॥१॥ १४९ ॥२॥ रागो दोसो मइब्भंसो, धम्मंमि य अनायरो । जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ " इति । तच्च वेद्यते - क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य दुःखभया पाणा १ जीवेणं कडे दुक्खे पमाएणं २ अपमाएणं बेइज्जई ३ त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति ॥ जीवेन कृतं दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयत्राह मू. (१८०) अन्नउत्थिता णं भंते! एवं आतिक्वंति एवं भासंति एवं पन्नवेति एवं परूवंति कहन्नं समणाणं निग्गंधाणं किरिया कज्जति ?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कजति, नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा कज्जति तं पुच्छंति, से एवं वत्तव्वं सिता ? अकिचं दुक्खं असं दुक्खं अकज्रमाणकडं दुक्खं अकडुं अकडुं पाणा भूया जीवा सत्ता वेणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किखं दुक्खं फुस्सं दुक्खं कजमाणकडं दुक्खं कड्ड २ पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वं सिया । सृ. 'अन्नउत्थी' त्यादिप्रायः स्पष्टं, किन्तु अन्ययूथिकाः अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्तः, 'एवं' वक्ष्यमाणप्रकारामाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदित्याह- 'कथं केन प्रकारेण 'श्रमणानां' निर्ग्रन्थानां मते इति शेषः क्रियते इति क्रिया-कर्म सा 'क्रियते' भवति दुःखायेति विवक्षयेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा कृता क्रियते विहितं सत्कर्म दुःखाय भवतीत्यर्थः १, एवं कृता न क्रियते २ अकृता क्रियते ३ अकृता न क्रियते ४ इति एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह- 'तत्थ' त्ति तेषु चतुर्षु भङ्गकेषु मध्ये प्रथमं द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रस्यात्यन्तं रुचेरविषयतया तठप्रश्नस्याप्यप्रवृत्तेरिति, तथाहि 'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते ' इति तेषुभङ्गकेषु मध्ये यत्तत्कर्म कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽ भवनाभावात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy