________________
१४२
स्थानाङ्गसूत्रम् ३/२/१६२ पं० २०-नाणबुद्धा सणबुद्धा चरित्तबुद्धार एवं मोहे ३ मूढा ४
वृ.सुबोधं, किन्तुबोधिः-सम्यग्बोधः, इहचचारित्रंबोधिफलत्वात्बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः पुरुषास्त्रिधाज्ञानबुद्धादय इति, “एवंमोहे मूढ'त्तिबोधिवद्धद्धवच मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-'तिविहे मोहे पनत्ते, तंजहा-नाणमोहे इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-नाणमूढेइत्यादि।।चारित्रबुद्धाःप्रागभिहिताः,तेच प्रव्रज्यायायं सत्यामतस्तां भेदतो निरूपयन्नाह
मू. (१६५)तिविहापव्वजा, पं० तं०-इहलोगपडिषद्धापरलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वजा, पं० २०-पुरतो पडिबद्धा मग्गती पडिबद्धादुहओ पडिबद्धा, तिविहा पव्वजा, पं०२०-तुयावइत्ता पुयावइत्ताबुआवइत्ता,तिविहापव्वजापं०तं०-उवातपव्वजा अक्खातपव्वजा संगारपव्वजा।
घृ. 'तिविहे त्यादि, सूत्रचतुष्टयं सुगमं, केवलं प्रव्रजनं गमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तंच॥१॥ “पव्वयणं पध्वजा पावाओ सुद्धचरणजोगेसु।
इय मोक्खं पइ गमणं कारण कजोवयाराओ ।।" इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धात् मार्गतः-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति।
'तुयावइत्त'त्ति 'तुद व्यथने इतिवचनात् तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सातथोच्यते, 'पुयावइत्त'त्ति, प्लुङ्गता वितिवचनात्प्लावयित्वा-अन्यत्रनीत्वाआर्यरक्षितवयादीयतेसातथेति, 'बुयावइत्ता संभाष्य गौतमेन कर्षकवदिति अवपातः-सेवा सद्गुरूणांततोयासाअवपातप्रव्रज्या, तथाआख्यातेन-धर्मदेशनेन आख्यातस्य वा-प्रव्रजेत्यभिहितस्य गुरुभिर्यासाऽऽख्यातप्रव्रज्याफल्गुरक्षितस्येवेति, संगार'त्तिसङ्केतस्तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा ॥ उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह
मू. (१६६) तओ नियंठा नोसंनोवउत्ता पं० तं०-पुलाए नियंठे सिणाए । ततो नियंठा सन्नणोसंत्रोवउत्तापं० तं०-बउसे पडिसेवणाकुसीले कसायकुसीले।
वृ. 'तओ'इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यनतरादिति निर्ग्रन्याः-संयता 'नो' नैव संज्ञायाम्-आहाराधभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः,तत्र पुलाको लब्ध्युपजीवनादिनासंयमासारताकारकोवक्ष्यमाणलक्षणः,निर्ग्रन्थःउपशान्तमोहः क्षीणमोहो वेति, स्नातको-घातिकर्मलक्षालनावाप्तशुद्धज्ञानस्वरूपः । तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तयास्वरूपत्वात्, तथाघाह-“सननोसनोवउत्त"त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च-तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org