SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० स्थानात सूत्रम् ३/२/१६१ नाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे पं० त०-उद्धलोगे अहोलेगे तिरियलोगे वृ. अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयतइत्येवंसम्बन्धवतोऽस्यसूत्रस्यव्याख्यालोक्यते-अवलोक्यते केवलावलकेनेति लोको, नामस्थापने इन्द्रसूत्रवत, द्रव्यलोकोऽपि तथैव, नवरंज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनिजीवाजीवरूपाणिरूप्यरूपीणि सप्रदेशाप्रदेशानिद्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तंच॥१॥ “जीवमजीवे रूवमरूवी सपएसअप्पएसे य । जाणाहि दव्वलोयं निचमनिचंचजंदवं" इति, भावलोकं त्रिधाऽऽह-'तिविहे'इत्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च, तबागमतोलोकपर्यालोचनोपयोगःतदुपयोगानन्यत्वात्पुरुषोवा, नोआगमतस्तुसूत्रोक्तोज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव केवलो नाप्यनागम इति, तत्रज्ञानंचासौलोकश्चेतिज्ञानलोकः, भावलोकताचास्यक्षायिकक्षायोपशमिकभावरूपत्वात, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तंच॥१॥ "ओदइय उवसमिए य खइए य तहा खओवसमिए य। परिणाम सन्निवाए यछव्विहो भावलोगो उ"त्ति, एवं दर्शनचारित्रलोकावपीति अथ क्षेत्रलोकं त्रिधाऽऽह'तिविहे' इत्यादि इहच बहुसमभूमिभागेरलप्रभाभागे मेरुमध्ये अटप्रदेशोरुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानियावज्योतिश्चक्राम्योपरितलस्ताव तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वात् ऊर्द्धलोको देशोनसप्तरञ्जप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानियावत्तावतिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोक सातिरेकसरप्तरज्जुप्रमाणः, अधोलोकोर्द्धलोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिारव्यायते "अहवा अहपरिणामो खेत्तनुभागेणजेणओसनं । असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो। ॥२॥ उई उवरिंजं ठिय सुहखेत्तं खेत्तओय दव्वगुणा । उप्पजंति सुभा वा तेण तओ उद्दलोगोत्ति ॥३॥ मज्झणुभावं खेत्तं जंतं तिरियंति वयणपज्जवओ। भन्नइ तिरिय विसालं अओ यतं तिरियलोगोत्ति" लोकस्वरूपनिरूपणानन्तरंतदाधेयानांचमरादीनां चमरस्सेत्यादिनाअञ्चुयलोगवालाणमित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति मू. (१६२) चमरस्स णं असुरिंदस्स असुरकुमाररभो ततो परिसातो पं० तं०-समिता चंडा जाया, अअिंतरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररनो सामाणिताणं देवाणं ततो परिसातो पं० तं०-समिता जहेव चमरस्स, एवं तायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीणवि, बलिस्सविएवं चेव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy