________________
स्थान-३, - उद्देशकः-१
१३२ रायाणो परिचत्तकामभोगा सेणावती पसत्यारो।
घृ. 'तओ'इत्यादि, निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते'निव्रताः' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर त्ति निर्मर्यादाः प्रतिपन्नपरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थकरणं सच तो निर्गती येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासे' मरणमासे 'कालं' मरणमिति,
'नेरइयत्ताए'त्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवर्त्तिवासुदेवाः माण्डलिकाः-शेषा राजानः, ये च महारम्भाः-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् ।।अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्तेतानाह-'तओ' इत्यादिसुगमं, केवलं राजानाः-प्रतीताः परित्यक्तकामभोगा:सविरताः, एतचोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारोलेखाचार्यादयः, धर्मशास्त्रपाठका इति चित्॥
अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमा-नान्तरनिरूपणायाह
मू. (१५९) बंभलोगलंतएसुणंकप्पेसुविमाणा तिवण्णा पं०तं०-किण्हानीलालोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरा उक्कोसेणं तिन्नि रयणीओ उद्धं उच्चत्तेणं पन्नत्ता
वृ. 'बंभे'त्यादि, इहच “किण्हानीला लोहिय"ति, पुस्तकेष्वेवंत्रैविध्यं दृश्यते, स्थानान्तरे चलोहितपीतशुक्लत्वेनेति, यत उक्तम्॥१॥ “सोहम्मे पंचवन्ना एक्कागहाणी य जा सहस्सारो।
दो दो तुल्ला कप्पा तेण परं पुंडरीयाई " इति, अनन्तरं विमानान्युक्तानितानिच देवशरीराश्रयाइतिदेवशरीरमानं त्रिस्थानकानुपात्याह'आणयेत्यादि, भवं-जन्मापि यावद्धार्यन्ते भवंवा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेदं, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, नतुजघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गुलासङ्खयेभागमात्रत्वादिति, शेषंकण्ठ्यमिति। अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता त प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह
मू (१६०)तओपन्नत्तीओकालेणंअहिअंति, तं०-चंदपन्नत्तीसूरपन्नत्ती दीवसागरपन्नत्ती
वृ. 'तओ' इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्त्, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् ।।
स्थान-३ - उद्देशकः-१ समाप्तः
स्थान-३ - उद्देशकः २:वृ. व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधाः प्राय उक्ताः, इहापि प्रायस्त एवेतीत्यसम्बन्धस्यास्येदमादिसूत्रम्
मू. (१६१)तिविहे लोगे पं० तं०-नामलोगे ठवणलोगे दव्वलोगे, तिविहे लोगे पं० तं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org