SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३, - उद्देशक: -१ योनित्वाज्जीवाः पुद्गलाश्च तद्गहणप्रायोग्याः, किं ? - 'व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रमन्ति' विनश्यन्ति, एतदेव व्याख्याति - विउक्कमंती' ति, कोऽर्थः ? - च्यवन्ते, 'वक्कमंति'त्ति, किमुक्तं भवति ? - उत्पद्यन्ते इति, 'पिहजणस्स' त्ति पृथग्जनस्य - सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह मू. (१४९) तिविहा तणवणस्सइकाइया पं० तं० संखेज्जजीविता असंखेज्जजीविता अनंतजीविया बृ. 'तिविहे 'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाः - पनकादय इति, इह प्रज्ञापनासूत्राण्यपीत्थं119 11 "जे केऽवि नालियाबद्धा, पुप्फा संखेज्जजीविया । न हुआ अनंतजीवा, जे यावन्ने तहाविहा पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं बिंटं बाहिरपत्ता य कन्निया चेव एगजीवस्स । अमितरगा पत्ता पत्तेयं केसरं भिजा " इति ।। तथा - लिंबंबजंबुकोसंबसाल अंकुल्लपीलुसल्लूया । सल्लइमोयइमालुय बउलपलासे करंजे य" ॥२॥ १३५ ॥३॥ ॥ ४ ॥ इत्यादि, “एएसिं मूलावि असंखेज्जीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेवजीविया, पुप्फा अनेगजीविया, फला एगट्टिया " इति ॥ अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीतिसम्बन्धाञ्जलाश्रयाणां तीर्थानां निरूपणायाह मू. (१५०) जंबुद्दीवे दीवे मा रहे वासे तओ तित्या पं० तं०-मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्क वट्टिविजये ततो तित्था पं० तं०-मागहे वरदामे पभासे ३, एवं घायइसंडे दीवे पुरच्छिमद्धेवि ६, पञ्चत्थिमद्धेवि ९, पुक्खरवरदीवद्धपुरच्छिमद्धेवि १२, पञ्च्चत्थिमद्धेवि १५ । वृ. 'जंबुद्दीवे' इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, सुगमाथ, केवलं तीर्थानि चक्रवर्त्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु क्रमेणेति, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥ जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानी, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्त्राह मू (१५१) जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरीवमकोडाकोडीओ कालो हुत्या १, एवं ओसप्पिणीए नवरं पन्नत्ते २ आगमिस्साते उस्सप्पिणीए भविस्सति ३, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि ९, एवं पुक्खरवरदीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेवि कालो भाणियव्वो १५ । जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताते उस्सप्पिणीते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy