________________
स्थानं - ३, उद्देशक: - १
१३३
चतुर्षुमध्यमा, पश्चिमेजधन्या, एवं सुषमसुषमादिषुप्रत्येकं त्र्यं त्रयं कल्पनीयम्, तथा उत्सर्पिण्याः दुष्षमदुष्षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति ।। काललक्षणा अचेतनद्रव्यधर्म्मा अनन्तरमुक्तास्तत्साधर्म्यात्पुद् गलधम्र्म्मान्निरूपयन् सूत्राणि पञ्च चतुरश्च
दण्डकानाह-
मू. (१४६ ) तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा तं० आहारिजमाणे वा पोग्गले चलेजा विकुव्वमाणे वा पोग्गले चलेज्जा ठाणातो वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा, तिविहे उवधी पं० तं० कम्मोवही सरीरोबही बाहिरमंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवज्रं जाव वेमाणियाणं १, अहवा
तिविहे उवधी पं० तं० - सच्चित्ते अचित्ते मीसए, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं, तिविहे परिग्गहे पं० तं०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिंदिनेरतिपव जाव वेमाणियाणं ३, अहवा तिविहे परिग्गहे पं० तं०-सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ४
वृ. 'तिही 'त्यादि, छिन्नः खङ्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- 'अच्छिन्नपुद्गल' इति, 'आहारेजमाणे 'त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाञ्चलति, जीवेनाकर्षणात्, एवं वैक्रियमाणो वैक्रियकरणवशवर्त्तितयेति, स्थानात्स्थानान्तरं सङ्क्रम्यमाणो हस्तादिनेति । उपधीयतेपोष्यते जीवोऽनेनेत्युपधिः, कर्मैवोपधिः कर्म्मोपधिः, एवं शरीरोपधिः, बाह्यः शरीरबहिर्वर्ती भाण्डानि च भाजनानि मृन्मयानि मात्राणि च मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकरणमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं वस्त्राभरणादि तदेव मात्रा- परिच्छेदः सैवोपधिरिति, ततो बाह्यशब्दस्य कर्म्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह
'एच' मित्यादि, 'अहवे' त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो वस्त्रादिः, मिश्रःपरिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरं अचेतनःउत्पत्तिस्थानं मिश्रः शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति 'तिविहे परिग्गहे' इत्यादि सूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते स्वीक्रियते इति परिग्रहो-मूर्च्छाविषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकै केन्द्रियाणां कम्र्म्मादिरेव सम्भवति, न भाण्डादिरिति ॥ पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादि भिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह
-
मू. (१४७) तिविहे पणिहाणे पं० तं०-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं०-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पत्रत्ते तं०- मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे पं० तं० मणदुष्पणिहाणे वइदुष्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं ।
घृ. कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम् - एकाग्रता, तच्च मनःप्रभृति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International