________________
स्थानं - ३, - उद्देशक:
-9
१३१
ओषधिक्वाथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहापाकमपि, ताभ्यां तैलाभ्याम्, 'अमंगेत्ता' अभ्यङ्गं कृत्वा 'गन्धट्टएणं' ति गन्धाट्टकेन गन्धद्रव्य क्षोदेन 'उद्वर्त्य' उद्बलनं कृत्वा त्रिभिरुदकैः- गन्धोदकोष्णोदकशीतोदकैः 'मज्जयित्वा' स्नापयित्वा मनोज्ञं- कलमौदनादि 'स्थाली'पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पकवूमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति 'शुद्धं' भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैव्यञ्जनैः - शालनकैस्तनादिभिर्वा आकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा एते चाष्टादश भेदा:'सूओ १ दणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ सागो १३ ॥ २ ॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १५ पाणगं चैव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो '
1
॥ १ ॥
-
मांसत्रयं जलजादिसत्कं जूषो मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितकंजीरकादि शाको वस्तुलादिभर्जिका, रसालू-मज्जिका, तल्लक्षणमिदम्
॥१॥
'दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा ।
दस खण्डगुलपलाई एस रसालू निवइजोग्गो' त्ति,
पानं-सुरादि, पानीयं जलं पानकं - द्राक्षापानकादि, शाकः -तक्रसिद्ध इति, यावान् जीवो यावज्जीवं यावत्प्राणधारणं पृष्ठेस्कन्धे अवतंस इवावतंसः - शेखरस्तस्य करणमवंसिका पृष्ठयतंसिका तया पृष्ठवतंसिक्या परिवहेत्, पृष्ठयारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्यअम्बापितुर्हष्प्रतीकारम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, ॥ १ ॥ ( आह च ) “कयउवयारो जो होइ सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे हवंति ते सुंदरा सुयणा " इति,
'अहेणं से' त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम्- अम्बापितरं धर्मे 'स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह-'आघवइत्ता' धर्म्मामाख्याय 'प्रज्ञाप्य' बोधयित्वा 'प्ररूप्य' प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य प्रभेदतो यथा शीलाङ्गसहस्ररूप इति, शालीर्थतन्त्रन्तानि वैतानीति, 'तेणामेव 'त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना 'तस्य' प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडियारं' ति सुखेन प्रतिक्रियते प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद्, आहच"संमत्तदायगाणं दुप्पडियारं भवेसु बहुए ।
119 11
सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं " १ । इति
अथ भर्तुः दुष्प्रतिकार्यतामाह- 'केइ महच्चे' त्ति कश्चित् कोऽपि महती ऐश्वर्यलक्षणाऽर्चा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International