SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/१/१३६ भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति, तथा पुरुषचित्रैः श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्नयते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः शब्दः स एव पुरुषः पुंल्लिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च॥२॥ A १२६ “अभिलावो पुंल्लिंगाभिहाणमेत्तां घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा वेयपुरिसोतिलिंगोऽवि पुरिसो वेदानुभूइकालम्मि” ॥ इति, 'धम्मपुरिस' त्तिधर्म्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्म्मपुरुषाः, उक्तं च“धम्मपुरिसो तयज्जणवावारपरी जह सुसाहू' इति, भोगाः- मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः १, आह च "भोगपुरिसो समज्जियविसयसुहो चक्क्यट्टिव्व" इति, कर्माणिमहारम्भादिसम्पाद्यानि नरकायुष्कादीनीति, उग्रा-भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम् ॥ १ ॥ "उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ" इति, तद्वंशजा अपि तत्तदव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा- दासीपुत्रादयः भृतकाः- मूल्यतः कर्मकराः 'भाइल्लग' त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति ॥ उक्तं मनुष्य पुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चांजलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे' त्यादि सूत्रैर्द्वादशभिस्तदाह मू. (१३७) तिविहा मच्छा पं० तं० अंड्या पोअया संमुछिमा १, अंडगा मच्छा तिविहा पं० तं० - इत्थि पुरिसा नपुसंगा २, पोतया मच्छा तिविहा पं० तं०- इत्थी पुरिसा नपुंसगा ३, तिविहा पक्खी पं० तं० - अंड्या पोअया संमुच्छिमा १, अंडया पक्खी तिविहा पं० तं०-इत्थी पुरिसा नपुंसगा २, पोतजा पक्खी तिविहा पं० तं० इत्थी पुरिसा नपुंसगा'। एवमेतेणं अभिलावेणं उरपरिसप्पावि, भाणियव्वा, भुजपरिसप्पावि भाणियव्वा ९ ९२ वृ. सुगमानि चैतानि, नवरं अण्डाज्जाता अण्डजाः, पोतं वस्त्रं तद्वज्जरायुर्वर्जितत्वाज्जाताः, पोतादिव वा बोहित्थाज्जाताः पोतजाः, सम्मूर्च्छिमा अगर्भजा इत्यर्थः, सम्मूर्च्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति । पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूर्च्छिमाः खञ्जनकादयः, उद्मिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिज्जादीनां सम्मूर्च्छनजविशेषत्वादिति, 'एव' मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन 'तिविहा उरपरिसप्पे' त्यादि सूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरः परिसर्पाः सर्व्वादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां - बाहुभ्यां परिसप्र्प्यन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं चेव'त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy