________________
स्थान-३, - उद्देशकः-१
१२५
-
-
॥१॥ "पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम्।
पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः" इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थं त्रिधाऽपि गर्हते, अथवाचतुथ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानिजुगुप्सत इत्यर्थः, किमर्थम्?-अकरणतायै-मा कार्षमहमेतानीति, 'दीहंऽपेगे अद्धं ति दीर्घकालं यावत्, तथाकायमप्येकः प्रतिसंहरति-निरुणद्धि, कया?-पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायैवातेभ्योवा गर्हते, कायंवा प्रतिसंहरति तेभ्यः,अकरणतायैतेषामेवेति।।अतीतेदण्डेगर्दा भवति, साचोक्ता, भविष्यतिचप्रत्याख्यानमिति सूत्रद्वयेन तदाह___'तिविहे त्यादि गतार्थं, नवरं 'गरिह'त्ति गाँयां, आलापकौ चेमौ मणसे' त्यादि, कायसा वेगे पञ्चक्खाइपावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, 'अहवा'
पञ्चक्खाणे तिविहे पं० तं०-दीहंपेगे अद्धं पञ्चक्खाइरहस्संपेगेअद्धं पञ्चक्खाइ कायंपेगे पडिसाहरइपावाणं कम्माणंअकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरतिपापकर्माकरणाय अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति ।।
पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणां प्ररूपणार्थमाह
मू.(१३६) ततो रुक्खापं० २०-पत्तोवते फलोवते पुप्फोवते १ एवामेवतओपुरिसजाता पं०२०-पत्तोवारुक्खसामाण पुप्फोवारुक्खसामाणा फलोवारुखसामाणा २, ततो पुरिसजायां पं०२०-नामपुरिसे ठवणपुरिसे दब्वपुरिसे ३, तओ पुरिसञ्जायापं० त०-नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसजाया पं० तं०-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५,
तिविहा पुरिसजाया पं० तं०-उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा ६, उत्तमपुरिसा तिविहा पं० त०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्क वट्टी कम्मपुरीसा वासुदेवा७, मज्झिमपुरिसा तिविहा पं० तं०-उग्गा भोगा रायन्ना ८, जहन्नपुरिसा तिविहा पं० २०-दोसा भयगा भातिल्लगा ९
पृ. 'तओ रूक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्राप्नोति पत्रोपगः, एवमितरी, ‘एवमेवे'तिदान्तिकोपननार्थः, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्रविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च ‘पत्तोवग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, “समाणे इत्यत्रापि च 'सामाणे' इति ।। अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽवेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्यगाथा॥१॥ "आगमओऽनुवउत्तो इयरो दव्यपुरिसो तिहा तइओ।
___ एगभवियाइ तिविही मूलुत्तरनिम्मिओ वावि" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तुतदाकारवन्ति तान्येवेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org