________________
१२४
स्थानाङ्ग सूत्रम् ३/१/१३३
इहचप्रथममल्पायुःसूत्रंद्वितीयंतद्विपक्षःतृतीयमशुभदीर्घायुःसूत्रचतुर्थंतद्विपक्षइतिनपुनरुक्ततेति
प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह
मू. (१३४) ततो गुत्तीतो पन्नत्ताओ, तं०-मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ पं० २०-मण० वइ० काय०, तओ अगुत्तीओ पं० तं०-मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइयताणंजाव थणियकुमारणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वैमाणियाणं
ततो दंडा पं० तं०-मणदंडे वयदंडे कायदंडे, नेरइयाणं तओ दंडा पण्णत्ता, तं०-मणदंडे वइदंडे, कायदंडे, विगलिंदियवजं जाव वेमाणियाणं
वृ.'तओ'इत्यादिकण्ठ्यं, नवरंगोपनं गुप्तिः-मनःप्रभृतीनांकुशलानांप्रवर्तनमकुशलानां च निवर्तनमिति, आह च॥१॥ "मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयके ऊहिं ।
परियोरेयरूवा निद्दिवाओ जओ भणियं ।। ॥२॥ समिओ नियमा गुत्तो गुत्तो समियत्तणंमि महयव्वो।
कुसलवइमुईरंतोजं वइगुत्तोऽवि समिओऽवि" इति, एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीनामित्यत आह-'संजयमणुस्साणमित्यादि, कण्ठयम्।उक्ता गुप्तस्तद्विपर्ययभूताअथागुप्तीराह
'तओ' इत्यादि कण्ठ्यं, विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह-एव'मित्यादि, 'एव'मिति सामान्यसूत्रवन्नारकादीनां तिनोऽगुप्तयो वाच्याः, शेष कण्ठ्यं, नवरमिहैकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषा गुप्तिप्रतिपादनादिति॥ ___अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डानिरूपयन्नाह-'तओ दण्डे' त्यादि, कण्ठ्यं, नवरं मनसा दण्डनमात्मनः परेषांचेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डोमन एव दण्डो मनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशतिदण्डके नेरइयाणं तओ दंडा' इत्यादियावद्वैमानिकानामिति सूत्रंवाच्यं, नवरं विगलिंदियवज्जतिएकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः,तेषां हि दण्डनयंन सम्भवति, यथायोगंवाङ्मनसोरभावादिति ।।दण्डश्चगर्हणीयो भवतीति गहाँ सूत्राभ्यामाह
मू. (१३५)तिविहा गरहा पं० तं०-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगेगरहति पावाणं कम्माणं अकरणयाए, अथवा गरहातिविहा, पं०२०-दीहंपेगे अद्धंगरहति, रहस्संपेगे अद्धं गरहति, कायंपेगे पडिसाहरति पावाणं कम्माणं अकरणयाए,
तिविहे पञ्चक्खाणे पं०२०-मणसा वेगे पञ्चक्खाति वयसा वेगे पञ्चक्खाति कायसावेगे पञ्चक्खाइ, एवं जहा गरहा तहा पच्चखाणेवि दो आलावगा भाणियव्वा ।
वृ. 'तिविहे' त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते-जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वा'कायसावितिसकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानांकर्मणामकरणतया हेतुभूतया, हिंसाधकरणेनेत्यर्थः, कायगर्हा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org