________________
स्थानं - ३ - उद्देशक:-१
॥१ ॥
१२३
॥२॥
"महव्वय अणुव्वएहि य बालतवोऽकामनिजराएय । देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो " (तथा) "पयईए तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मनुयाउं बंधए जीवो "
देवमनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं-"समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएसणिज्जेणं असण ४ पडिलाभेमाणस्स किं कज्जइ ?, गोयमा !, एगंतसो निज्जरा कज्जइ, नो से केइ पावे कम्मे कज्जइ २" इति यच्च निर्जराकारणं तच्छुभदीर्घायुःकारणतयानविरुद्धं, महाव्रतवदिति । अनन्तरमायुषो दीर्घताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह -
·
'तिही' त्यादि प्राग्वत्, नवरं अशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहिअशुभं च तत्पापप्रकृतिरूपत्वात् दीर्घं च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घं तदेवंभूतमायुः - जीवितं यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वैति, प्राणान् प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमशनादिना हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्याद्युद्घट्टनतो निन्दनं मनसा खिसनं जनसमक्षं गर्हणं तत्समक्ष अपमाननमनभ्युत्थानादिभिः, 'अन्यतरेण' बहूनां मध्ये एकतरेण, क्कचित्त्वन्यतरेणेति नश्यते, 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रतीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, आर्यचन्दनायाइव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोषाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरै सम्पन्नौ केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिभिर्गृहं भृतं सेन्द्रदेवदानवनरनायकैरभिनन्दिताकालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकाप्रासुकत्वादिनान विशेषितं, हीलनादिकर्त्तुः प्रासुकादिविशेषणस्य फलविशेषंप्रत्यकारणत्वात्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेर्द्दश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाह“मिच्छादिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो । नरयाउयं निबंधइ पावमती रोद्दपरिणामो " इति ।
॥१॥
उक्तविपर्ययेनाधुनेतरदाह - तिहिं ठाणेहिं' त्यादि पूर्ववत्, नवरं 'वन्दित्वा' स्तुत्वा 'नमस्यित्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिः तद्वेतुत्वात् साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव दैवतं चैत्यमिवजिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तवितरस्य चेदं फलमवसेयं, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यात्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org