________________
१२२
स्थानाङ्ग सूत्रम् ३/१/१३३ भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाचेति, अथ मिथ्याष्टिश्रमण ब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति ?, नैवम्, अप्रासुकेमेति तत्र विशेषणस्यार्थकत्वात्, प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम्
"समणोवासयस्स णं भंते ! तहारूवं असंजतअविरयअपडिहयअपचक्खायपावकम्म फासुएण वा अफासुएण वा एसणिज्जेण वा अनेसणिज्जेण वा असण ४ पडिलाभेमाणस्स किं कञ्जइ?, गोयमा?, एगंतसो पावेकम्मे कजइ, नो से काइ निजरा कजइ"त्ति, यच्च पापकर्मण ।। एव कारणं तदल्पायुष्टाया अपि कारणमिति, नन्वेषं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यामापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, यतः॥१॥ "अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः।
व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः"
-तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम् - ॥१॥ "एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् ।
अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति " ॥१॥ (तथा) “भण्णइ जिणपूयाए कायवहो जइवि होइ उ कहिंचि ।
तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥२॥ असदारंभपवत्ताजंच गिही तेण तेसिं विनेया ।
तन्निवित्तिफलच्चिय एसा परिभावनीयमिदं " इति, दानाधिकारेतुश्रूयतेद्विविधाः श्रमणोपासका:-संविग्नभावितालुब्धकष्टान्तभाविताश्चेति, ॥१॥ (यथोक्तम्-) “संविग्गमावियाणं लोद्धयदिट्ठतभावियाणंच।
मोत्तूण खेत्तकाले भावंच कहिंति सुद्धछं" इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तभेदम्, ॥१॥ “संथरणमं असुद्धं दोण्हवि गेण्हन्तर्देतयाणऽहियं ।
आउरदिटुंतेणं तं चेव हितं असंथरणे " इति, तथा नायागयाणंकप्पनिजाणंअन्नपाणाईगंदव्वाणंदेसकालसद्धासकरकमजुयं" इत्यादि, क्वचित् “पाणे अतिवायित्ता मुसं वयित्ते" त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रातलम्भ्य अल्पायुष्टया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भनस्थानकस्यैवेतरे विशेषणे, तथाहिप्राणानतिपात्याधाकर्मादिकरणतोमृषोक्त्वा यथा-अहोसाधो! स्वार्थसिद्धमिदंभक्तादिकल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थंचेदंसूत्रमतोऽन्यथाऽपि भावनीयमिति
अल्पायुष्कताकारणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह
"तिही'त्यादि प्राग्वदवसेयम्, नवरं 'दीहाउयत्ताएत्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तंच
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org