SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० स्थानाङ्ग सूत्रम् ३/१/१३२ 'तिविहे करणे इत्यादि कण्ठ्यं, नवरं क्रियतेयेनतत्करणं-मननादिक्रियासुप्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्रमन एवकरणंमनःकरणमेवम् इतरे अपिस एव' मित्याधतिदेशसूत्रपूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनः-प्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतयाआगमे बहुशःप्रवृत्तिदर्शनात्, तथाहि-योगःपञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि “कतिविहेणंभंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे' इत्यादि, तथाआवश्यकेऽयमेव करणतयोक्तः, तथाहि॥१॥ "झुंजणकरणं तिविहं मणवतिका य मणसि सचाइ। सट्टाणे तेसि भेओ चउ चउहा सत्तहा चेव " इति।। प्रकारान्तरेणकरणत्रैविध्यमाह-तिविहे इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईनंतस्य कृतिः-करणंस एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेषः-संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्कलेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह च॥१॥ “संकप्पो संरंमो परितावकरो भवेसमारंभो। आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं" इति ।। इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह-निरन्तर'मित्यादि, सुगमं, केवलं संरम्भकरणसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्मभादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयत्राह मू. (१३३) तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, तं०-पाणे अतिवातित्ता भवति मुसंवइत्ता भवइतहास्वंसमणंवामाहणं वाअफासुएणं अनेसणिज्जेणं असनपानखाइमसाइमेणं पडिलाभित्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मं पगरेंति, तं०-नो पाणे अतिवातित्ता भवइ णो मुसं वतित्ता भवति तथालवं समणं वा माहणं फासुएसणिजेणं असनपानखाइमसाइमेणं पडिलाभेत्ता भवइ, इच्चे तेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेति। तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेति, तंजधापाणे अतिवातित्ता भवइ मुसं वइत्ता भवइ तहालवं समने वा माहणं वा हीलेत्ता निंदित्ता खिसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण० पडिलाभेत्ता भवइ, इच्छेतेहिं निहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्तातेकम्मं पगरेति, तं०-नो पाणे अतिवातित्ता भवइ नो मुसं वदित्ता भवइ तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारिता समाणेत्ता कल्लाणं मंगलं देवतं चेतितं पजुवासेत्ता मणुन्नेणं पीतिकारणएणं असनपानखाइमसाइमेणं पडिलाभित्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा सुदहीहाउतत्ताते कम्म पगरेति। वृ.'तिहिं ठाणेहि इत्यादि, 'त्रिभिः 'स्थानैः' कारणैः जीवाः' प्राणिनः 'अप्पाउयत्ताए'त्ति अल्पं-स्तोकमायुः-जीवितंयस्यसोऽल्पायुस्तद्मावस्तत्तातस्यै अल्पायुष्टायैतदर्थतनिबन्धमित्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy