SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्थानं-३, - उद्देशकः-१ ११९ ॥१॥ “जोगो वीरियं थामो उच्छाह परकमो तहा चेट्ठा। सत्ती सामत्यंति य जोगस्स हवंति पञ्जाया" इति, सच द्विधा-सकरणोऽकरणश्च, तत्रलेश्यस्य केवलिनः कृतस्नयोर्जेयश्योरर्थयोः केवलं ज्ञानं दर्शनं चोपयुझानस्य योऽसावपरिस्पन्दोऽप्रतिधो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैवव्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'कम्मंजोगनिमित्तंबज्झइ'त्तिवचनात् युकतेप्रयुकतेयं पर्यायंस योगोवीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आहच- । ॥१॥ “मणसा वयसा काएण वावि जुत्तस्स विरियपरिणामो। जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ ॥२॥ तेओजोगेण जहा रत्तत्ताई घडस्स परिणामो। जीवकरणप्पओए विरियमवितहप्पपरिणामो" इति, मनसा करणेनयुक्तस्यजीवस्ययोगो-वीर्यपर्यायोदुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, सचचतुर्विधः-सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरंस सप्तविधः-औदारिको १ दारिकमिश्न २ वैक्रियत ३ विक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग७ भेदादिति, तकत्रौदारिकादयः शुद्धाःसुबोधाः,औदारिकमिश्रस्तुऔदारिकएवापरिपूर्णोमिश्रउच्यते, यथा गुडमिश्रं दधिन गुडतया नापि दधितया व्यपदिश्यतेतत्ताभ्यामपरिपूर्णत्वात्, एवमौदारिक मिश्रकार्मणेन नौदारिकतया नापिकार्मणतया व्यपदेष्टुंशक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवम्औदारिकाद्याः शुद्धासतत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायःकार्मणेन औदारिकशरीररिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रोदेवाद्युत्पत्ती कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तुसाधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशेऔदारिकेणेति, कार्मणस्तुविग्रहे केवलिसमुद्घाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङग्रहोऽस्य॥१॥ "सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मनोवती चेवं ८। काओउराल १ विक्यि ३ आहारग३ मीस ६ क्म्मइगो७" इति ॥ सामान्येन योगंप्ररूप्यविशेषतोनारकादिषुचतुर्विंशतोपदेषुतमतिदिशन्नाह-एव मित्यादि, कण्ठ्यं, नवरतमतिप्रसङ्गपरिहारायेदमुक्तं-“विगलिंदियवञ्जाणं"ति तत्र विकलेन्द्रियाःअपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोगएव, द्वित्रिचतुरिन्द्रियाणांतुकाययोगवाग्योगाविति मनःप्रभृतिसम्बन्धेनैवेदमाह "तिविहेपओगे' इत्यादि, कण्ठ्यं, नवरंमनःप्रभृतीनां व्याप्रियमाणानांजीवेन हेतुकर्तृभूतेन यद्व्यापारणं-प्रयोजनंस प्रयोगः मनसः प्रयोगोमनःप्रयोग, एवमितरावपि, ‘जहे त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy