SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/१/१३० देवीश्चाभियुज्याभियुज्य - आश्लिष्याम्लिष्य वशीकृत्य वा परिचारयति परिमुङ्कते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येवष्वपि तथा श्रवणात्, न चात्रार्थे नरमरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ? " ११८ आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीयं एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहरेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्द्धिकदेवविशेषस्वामिकत्वादिति ॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाहमू. (१३१) तिविहे मेहुणे पं० तं०- दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति तं०-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति तं०-इत्थी पुरिसा नपुंसगा । बृ. 'तिविहे मेहुणे' इत्यादि कण्ठ्यं, नवरं मिथुनं स्त्रीपुंसयुग्मं तत्कर्म मैथुनं, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् ॥ मिथुनकर्मण एव कारकानाह- 'तओ' इत्यादि कण्ठ्यं तेषामेव भेदानाह- 'तओ मेहुण' मित्यादि, कण्ठ्यं, नवरं स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः ॥ १ ॥ “ योनि १ मृदुत्व २ मस्थैर्यं ३स, मुग्धत्वं ४ क्लीबता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥२॥ मेहनं १ खरता २ दाढ ३, शौण्डीर्यं ४ श्मश्रु ५ धृष्टता ६ । स्त्रीकामिते ७ तिलिङ्गानि सप्त पुंस्त्वे प्रचक्षते स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् " - तथाऽन्यत्राप्युक्तम् - “स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् " ॥ ३ ॥ 119 11 इत्यादि । एते च योगवन्तो भवन्तीति योगप्ररूपणायाह मू. (१३२) तिविहे जोगे पं० तं०-मणजोगे वतिजोगे कायजोगे, एवं नेरतिताणं विगलिंदियवज्जाणं जाव वैमाणियाणं, तिविहे पओगे पं० तं०-मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तथा पओगोऽवि, तिविहे करणे पं० तं०-मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवज्रं जाव वैमाणियाणं, तिविहे करणे पं० तं०- आरंभकरणे संरंभकरणे समारंभकरणेस निरंतरं जाव वेमाणियाणं 'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षय क्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः, आह च बृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy