SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्थान-३, - उद्देशकः-१ ११७ तदनन्तरं तस्यैव केशादिरचनंच, अनादानाचिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषांचानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह मू. (१२९)तिविहा नेरइया पन्नत्तातं०-कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वैमाणिया वृ.'तिविहे त्यादि, कण्ठ्यम्, नवरं 'कती'त्यनेन सङ्घयावाचिनाद्वयादयः सङ्घयावन्तोऽभिधीयन्ते, अयंचान्यत्र प्रश्नविशिष्टसङ्घयावचकतयारूढोऽपीए सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति कतिसङ्ख्याताः सङ्घयाताएकैकसमयेये उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधाबुध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति-न सद्ध्याता इत्यकति-असञ्जयाताअनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताःअसङ्ख्याता एकैकसमये उत्पत्रा सन्तस्तथैव सञ्चितास्तेअकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुंसोऽवक्तव्यः सचैक इतितत्सञ्चिता अवक्तव्यकसञ्चिताः समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तंच॥१॥ “एगो व दो व तिन्नि व संखमसंखा व एगसमएणं। उववजंतेवइया उव्वटुंता वि एमेव" इति, एतद्देवपरिमाणमेतदेव नारकारणामपि, यत उक्तम्-"संखा पुण सुरवरतुल्ल'त्ति, कतिसञ्चितादिकमर्थमसुरादीना दण्डकोक्तानामतिदिशन्नाह- 'एव'मित्यादि, ‘एव'मिति नारकवच्छेषाश्चतुर्विंशतिदण्डकोक्तावाच्या एकेन्द्रियवर्जाः, यतस्तेषुप्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च॥१॥ "अनुसमयमसंखेज्जा संखेज्जाऊयतिरियमणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥२॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि। एगानिगोए निचं एवं सेसेसुवि स एव" इति । अनन्तरसूत्रे कतिसंचितादिको धर्मोवैमानिकानां देवानामुक्तः, अधुना देवानांसामान्येन परिचारणाधर्मनिरूपणायाह मू. (१३०) तिविहा परियारणा पं० २०-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिजुंजिय २ परियारेति, अप्पनिजिआओ देवीओ अभिमुंजिय २ परियारेति, अप्पाणमेव अप्पणा विउव्विय र परियारेति १, एगे देवे नो अन्ने देवा नो अत्रेसिं देवाणं देवीओ अभिमुंजिय २ परियारेति अत्तनिजिआओ देवीओ अभिजुंजिय र परियारेइ अप्पाणमेव अप्पणा विउब्विय २ परियारेति २, एगे देवे नो अन्ने देवा अन्नेसि देवाणं देवीओ अभिमुंजिय २ परितारेति नो अपनिजिताओ देवीओअभिजुजिय र परितारेति अप्पाणमेव अप्पाणं विउब्विय र परितारेति ३।। वृ. 'तिविहा परी त्यादि, कण्ठ्यम्, नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो नसर्वोऽप्येवमिति, किम्?-'अनेदेवे'त्तिअन्यान्देवान-अल्पर्धिकान्तथाऽन्येषां देवीनांसत्का Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy