SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्थान-३, - उद्देशकः-१ ११५ ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणाम तच्चोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत्, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तोद्रव्येन्द्रः, भव्यशरीरद्रव्येन्द्रवत, सचावस्थाभेदेन त्रिविधः, तद्यथा-एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स, एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेतिबद्धायुरुच्यते, सचोत्कर्षतः पूर्वकोटीत्रिभागंयावद्, अस्मात्परतः आयुष्कबन्धाभावात, तथा अभिमुखे-संमुखेजघन्योत्कर्षाभ्यांसमयान्तर्मुहूर्तानन्तरभावितया नामगोत्रे इन्द्रसबन्धिनी यस्य स तथा, तथाभावेश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाअप्रधानत्वाच्छनादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणं चेदम्-भावम्-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेनन वा भवतीति भावः सचासाविन्द्रश्चेति भावेन्द्रः, यदाह॥१॥ "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्द- नादिक्रियानुभवात्" स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो मावेन्द्रः, कथमिन्द्रोपयोगमात्रात्तन्मयताऽवगम्यते?,नह्यग्निज्ञानोपयुक्तोमाणवकोऽग्निरेव, दहनपचनप्रकाशनाधर्थक्रियाप्रसाधकत्वाभावादिति चेत्न,अभिप्रायापरिज्ञानात, संवित्ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्र 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं?, घटः, किमयमाह ?, घटशब्दं, किमस्य ज्ञानं ?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारंतत्, पदार्थान्तरवद्विपक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्चज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद, आकाशवत्, नचानलः सर्वएवदहनाद्यर्थक्रिया प्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, - नोआगमतो भावेन्द्र इन्द्रनामगात्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वानोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रुव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव च विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपोयः परिणामः सनागम एव केवलोन चानागम इत्यततो मिश्रवचनत्वात् नोशब्दस्य नोआगमत इत्याख्यायत इति । ननुनामस्थापनाद्रव्येष्वन्द्राभिधानं विवक्षितभावशून्यत्वाद्रव्यत्वंचसमानं वर्तते, ततश्च क एषां विशेषः?, आह च॥१॥ "अभिहाणं दव्वत्तं तदत्थसुन्नत्तणंच तुल्लाई। को भाववज्जियाणं नामाईणं पइविसेसो ? " इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy