________________
११४
॥१॥
अयमर्थः यद्वस्तित्यादिना यथार्थमिन्द्र इत्याद्युक्तं स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि, याच्छिकमनर्थकं डित्यादीति ३ अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपाला दिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति । तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना - लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्षणमिदम्
119 11
॥१॥
स्थानाङ्ग सूत्रम् ३/१/१२७
“यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायनभिधेयञ्च नाम या च्छिकं च तथा " इति,
“यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालञ्च " इति, तथा, "लेप्पगहत्थी इत्थित्ति एस सम्भाविया भवे ठवणा । होइ असमावे पुण हत्थित्ति निरागिई अक्खो " इति,
तथा द्रवति-गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैद्रर्वा-सत्ताया अवयवो विकारो वा वर्णादिगुणानां वा द्रावः समूह इति द्रव्यं तच्च भूतभावं भाविभावं चेति, आह च119 11 “दवए १ दुयए १२ दोरवयवो विगारो ३ गुणाण संदावो ४ ॥ दव्वं भव्वं भावस्स भूयभावं च जं जोगं " ति, ।
तथा "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम्
77
तथा 'अनुपयोगो द्रव्यमप्रधानं चे 'ति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधाआगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, नोआगमतस्तु तद्विपर्यमाश्रित्य तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः 'अनुपयोगो द्रव्य मिति वचनात्, अयमेवार्थो मङ्गलमाश्रित्य भाष्य उक्तः, , तथाहि-
|| 9 ||
119 11
"आगमओऽनुवउत्तो मंगलसद्दाणुवासिओ वत्ता।
तन्त्राणलद्धिजुत्तोवि नोवउत्तोत्ति तो दव्वं "इति,
तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा-ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरं ज्ञशरीरं ज्ञशरीरमेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः, एतदुक्तं भवति इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्वावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रकारणत्वात् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः, तथा भव्यो-योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं भव्यशरीरं तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो भाविनीं वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत्, उक्तश्च मङ्गलमधिकृत्य -
॥१॥
"मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोवि ।
नोआगमओ दव्वं आगमरहिओत्ति जं भणितं " इति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org