________________
११०
स्थानाङ्ग सूत्रम् २/४/११३
पडुपन्नविणासिएचेव'त्ति प्रत्युत्पन्न-वर्तमानलब्धवस्तित्वत्यर्थो विनाशितम्-उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्वेवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुचये, इत्यैकम्, अन्यच्च पिधत्ते च-निरुणद्धि च आगामिनो-लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचि आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह
मू. (११४) दुविहा मुच्छापं० २० -पेञ्जवत्तिता चेव दोसवत्तिताचेव, पेज्जवत्तिया मुच्छा दुविहा पं० -माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा पं०- कोहे चेव माने चेव।
वृ. 'दुविहे' त्यादि सूत्रत्रयंकण्ठयं, नवरं मूर्छा-मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिःवर्तनं रूपंप्रत्ययो वा-हेतु-र्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्ययावा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति मूर्होपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह --
मू. (११५) दुविहा आराहणा पं० तं० - धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० तं०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहापं० त०, अंतकिरिया चेव कप्पविमाणोववत्तिआ चेव।
वृ. 'दुविहे'त्यादि, सूत्रत्रयंकण्ठ्यम्, नवरंआराधनमाराधना-ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः-साधवस्तेषामियं धार्मिकी सा चासावाराधनाचधार्मिकाराधना, केवलिनां-श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मे'त्यादी विषयभेदेनाराधनाभेद उक्तः, केवलिआराहणे'त्यादौतुफलभेदेनेति, तत्रअन्तो-भवान्तस्य क्रियाअन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात्, एषा च क्षायिकज्ञाने केवलिनामेव भवति।
तथा कल्पेषु देवलोकेषु, नतुज्योतिश्चारे, विमानानि-देवावासविशेषाःअथवाकल्पाश्चसौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः-उपपातो जन्म यस्याः सकाशात्साकल्पविमानोपपत्तिकाज्ञानाधाराधना, एषा चश्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परयातु भवान्तक्रियाऽनुपातिन्येवेति।ज्ञानाधाराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यक् ता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह
मू. (११६) दो तित्यगरा नीलुप्पलसमा वनेणं पं० तं० - मुनिसुव्वए चेव अरिष्टनेमि चेव, दो तित्थयरा पियंगुसामावनेणं पं० २० -मल्ली चेव पासे चेव, दो तित्थयरा पउमगोरा बन्नेणं पं० त० • पउमप्पहे चैव वासुपुजे चेव, दो तित्थगरा चंदगोरा वन्नेणं पं० त० - चंदप्पभे चैव पुष्पदंते चेव।
वृ. 'दो तित्ययरे'त्यादि सूत्रचतुष्टयं कण्ट्यम्, नवरंप रक्तोत्पलं तद्वद् गौरी पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरी चन्द्रशुक्लावित्यर्थः, गाथाऽत्र॥७॥ “पउमाभवासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा ।
सुब्बयनेमि काला पासोम्ली पियंगामा॥" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org