________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:9
ऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति४श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्तवौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः दर्शनसप्तकक्षयात्क्षायिकःचारित्रमोहनीयोपशमदौपशमिकः भव्यत्वात्पारिणामिक इति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावदउदयेभव औदयिकः,सचाजीवाश्रयोऽनया विवक्षया,यदूत-काश्चितप्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्चषट् संस्थानानित्रीण्यङ्गोपाङ्गानिषट्संहननानिवर्णपञ्चकंगन्धद्वयंपञ्चरसाअष्टौ स्पर्शाअगुरुलघुनाम उपघातनाम पराघातनामउद्योतनामआतपनामनिर्माणनामप्रत्येकनामसाधारणनामस्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वाअपिपुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा - अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धधिकिाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वनेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथा तात्पयार्थः ।। उक्तो गुणो, मूल निक्षेपार्थमाहनि. [१७३] मूले छक्कं दवे ओदइउवएस आइमूलं च ।
खित्ते काले मूलं भावे मूलं मवेतिविहं।। वृ.मूलस्यषोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापनेगतार्थे, द्रव्यमूलं ज्ञशरीरमव्यशरीरव्यतिरिक्तंत्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति,तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यच्चिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्चपिप्पलीमूलादिकं,आदिमूलंनामयवृक्षादिमूलोत्पत्तावाद्यकारणं, तद्यत्स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिर्वर्तनोत्तरप्रकृतिप्रत्ययाच्चमूलमुत्पद्यते, एतदुक्तंभवति -तेषामौदारिकशरीत्वे मूलनिवर्तकानांपुद्गलानामुदयिष्यतां कार्मणशरीरमाचं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यतेव्याख्यायतेवा, एवं कालमूलमपि, यावन्तं वा कालंमूलमास्ते, भावमूलं तुविधेति गाथार्थः ।। तथाहिनि. [१७४] ओदाइयं उवदिठ्ठा आइतिगं मूल भाव ओदइअं।
आयरिओ उवदिट्ठा विणयकसायादिओ आई। वृ. भावमूलं त्रिविधम् - औदयिकभावमूलम् उपदेष्ट मूलम् आदिमूलं चेति, तत्रौदयिकमावमूलंवनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात्मूलजीवएव, उपदेष्ट भावमूलं वाचार्य उपदेष्टा-यैः कर्मभिःप्राणिनोमूलत्वेनोपद्यन्ते,तेषामपिमोक्षसंसारयोर्वायदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति – "विणयकसाइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह' ॥१॥ "विनया नाणंणनणाउदंसणं दसणाहि चरणं तु ।
चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ।। ॥२॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत ज्ञानम् ।
ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org