________________
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७२] सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः, फलंच क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्रहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन् फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति
सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिक सुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात् स च निर्भजनारूपो, निश्चिता भजना निर्भजना - निश्चितो भाग इत्यर्थः, तथाहि - स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणोनामकलाकौशलं, तथाहि - उदकादी करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-- तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुखएव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात्सन्तमसेऽपिकवलादेर्मुखविवरप्रक्षेपाद्वया (पो व्या)कुलितचेतसोऽपि चतुदग्दात्रकण्डूयनमिति । गुणागुणोनामगुणएव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तंच - " शाठ्यं ड्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ? अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, सच वक्रविषयो, यथा गौर्गलिरजातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च
11911
९२
" गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥"
भवगुणो नाम भवन्ति - उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथा - नारकास्तीव्रतरवेदनासहिष्णवस्तिल- शञ्चिछन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्म्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणोनाम भावाः- औदयिकादयस्तेषां गुणो भावगुणः, सच जीवाजीवविषयः, तत्र जीवविषयऔदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च, तीर्थकराहारकशरीरादि प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्म्मानुदयलक्षणश्चेति, क्षायिक भावगुणश्चतुर्द्धा, तद्यथा-
क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं १ क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्म्मक्षयः २ क्षीणघातिकर्म्मणोऽनावरणज्ञानदर्शनाविर्भावः ३ अपगताशेषकर्म्मणोऽपुनर्भवस्तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org