________________
९१
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक: ॥१॥ “दव्पज्जवविजुयं दव्वविउत्ता य पजवा नत्थि ।
उप्पायट्टिइभंगा हंदि दवियलक्खणं एयं ।। ॥२॥ नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहघातकः ।
भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ।।" इत्यादिस्वयूथ्वैरत्र बहुविजृम्भितमित्यलं विस्तरेण । एतदेवनियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाहनि. [१७१] संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो।
पूरेइ हंदि लोग बहुप्पएसत्तणगुणेणं॥ वृ.जीवो हि सयोगिवीर्यसद् द्रव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्कुचतिविकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम्-इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्धातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्तानुबन्धिइक्रोधाधुपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशेआलोकान्तादात्मप्रदेशानां भूयो भूयःप्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वतएवाचष्टे- 'पूरयति व्याप्नोतिहन्दीत्युपप्रदर्शने, किम्? -'लोकं चतुर्दशरज्वामकमाकाशखण्डं,कुतो?,बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञानआयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम् - "दंड कवाडे मंथंतरे यत्ति गाथार्थः । गतो द्रव्यगुणः, क्षेत्रादिकमाह - नि. [१७२] देवकुरु सुसमसुसमा सिद्धी निब्ाय दुगादिया चेव ।
कल भोअणुजु वंके जीवमजीवे य मामि॥ वृ. क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिःपर्यवगुणेनिर्भजना, गणनागुणेद्विकादि, करणगुणेकलाकौशल्यम्, अभ्यासगुणेभोजनादि,गुणागुणेऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेनजीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणोजीवः क्षान्त्याधुपेतो, भावगुणोजीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते - तत्र देवकुरुत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषोमनोज्ञशब्दादिविषयोपभोगिनःस्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org