________________
आचाराङ्ग सूत्रम् १/-/२/२/- [नि. १६८] तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्- 'जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे' इत्यादि ॥
अस्य च निक्षेपनिर्युक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपःनि. [१६९ ] दव्वे खित्ते काले फल पञ्जव गणण करण अब्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥।
९०
वृ. नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाधासभा - सार्थः । तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनिर्युक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, साच 'उद्देसे' त्यादिना द्वारगाथाद्वयेनानुगन्तव्या । साम्प्रतं सूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह
नि. [ १७०]
दव्वगुणो दव्वं चिय गुणाण जं तंमि संभवो होइ । सच्चित्ते अच्चित्ते मीसंमि य होइ दव्वंभि ।।
सृ. तत्र द्रव्यगुणो नाम द्रव्यमेव, किमति ?, गुणानां यतो गुणिनि तादात्मयेन सम्भवात् (वः), ननु च द्रव्यगुणयोर्लक्षणविधानभेदाभेदः, तथाहि द्रव्यलक्षणं-गुणपर्यायवद्वव्यं, विधानमपि - धर्माधर्म्माकाशजीवपुद्गलादिकमिति, गुणलक्षणं-द्रव्याश्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा- अरूपि रूपि च तत्रारूपिद्रव्यं त्रिधा धर्माधर्म्माकाशभेदभिन्नं, तञ्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं त्रयस्यापि स्वं रूपं न भेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः संयोगविभागाभावात्, स्वात्मवत् । तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्धया कार्येति गाथार्थः
तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः तत्किमिदानीमभेदोऽस्तु ?, नैतदप्यस्ति यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात् तथाहि चूतफलरूपादी चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद् रूपादिस्वरूपवद् एवं ह्यभेदः स्याद्-यदि रूपादी समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन्, अन्यथा विरुद्धधर्म्माध्यासाद्भिद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः ?, आचार्य आह-अत एव भेदाभेदोऽस्तु तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि - गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org