________________
९४
आचारा सूत्रम् १-२/9/-[नि. १७५)
॥३॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् ।
तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ।। ॥४॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः ।
तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥" इत्यादि संसारस्य त्वादिमूलं विषयकषाया इति ।।मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाहनि. [१७५] नामंठवणादविए खित्तद्धा उड्ढ उवरई वसही।
__ संजम पग्गह जोहे अयल गणण संघणा भावे ।। वृ.तबद्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्आश्रयः, क्षेत्रस्थानं भरतादि उधिस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धाकालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख्येया उत्सपिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणामसङ्ख्येया वर्षसहानाः पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताटौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणिपल्योपमानि, देवानांनारकाणांचकायस्थितेरभावाद्भवस्थितिः प्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावातीतानागतसद्धिारूपमिति । उर्द्धवस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वात्रिषण्णाद्यपि गृह्यते ।
उपरतिः-विरतिः, तत्स्थानंदेशेसर्वत्रच श्रावकसाधुविषयावसतिस्थानं योयत्रग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि संयमस्थानानि, कियदसद्ध्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्घयेयगुणाः ततोऽपि तत्कायस्थितिरसङ्घयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्खयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यतेसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुर्तिकत्वादन्तर्मुहूर्तसमयतुल्यान्यसङ्घचेयानि संयमस्थानानि, यथाख्यातस्य लेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवासंयमश्रेण्यन्तर्गतााने संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्ख्येयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्घयेयैर्जनितं षट्स्थानक, तदसङ्ख्येयामिका श्रेणीति। ___प्रग्रहरथानं तुप्रकर्षणगृह्यतेवचोऽस्येतिप्रग्रहः-ग्राह्यवाक्योनायकइत्यर्थः,सचलौकिको
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org