________________
श्रुतस्कन्धः-१, अध्ययनं-२, उपोद्धात : ॥२॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः ।
___ श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ।। वृ. उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानादर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितिनिष्प्रत्यहसकलप्राणिगणसट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेवर्हिस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतिनिरासेनैकेन्द्रियावनिवजाननलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलतायुभेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्माण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहितानियततिरश्रीनगमनाद्गवाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकारधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपप्तिकअपर्याप्तकभेदांश्च प्रदर्श्व शस्त्रंच स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिंच प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते,
-तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्यतप्रतिपादितैकेन्द्रियपृथिवीकायादिश्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधायथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयोभवति तथाऽनेनाध्ययनेनप्रतिपाद्यते । तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - “लोओ जह बज्झइजह यतं विजहियव्वं"ति, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानिचोपक्रमादीनि, तत्रोपक्रमो द्वेधा-शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधाओधनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थीधिकारश्च, तत्राध्ययनाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायांप्रागेव निरदेशि, उद्देशार्थाधिकारंतुस्वयमेव नियुक्तिकारः प्रचिकटयिषुराह --
__- अध्ययन-२, उद्देशकः-१:नि. [१६३] सयणे य अदढत्तं बीयर्गमि माणो अअस्थसारो अ।
___ भोगेसु लोगनिस्साइ लोगे अममिजया चेव॥ वृतत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथाच सूत्रम् - 'माया मे पिया मे' इत्यादि १, 'अदढत्तं बीयगंमित्ति द्वितीय उद्देशकेअद्दढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चाद्दढत्वं कार्यमिति, वक्ष्यति च - 'अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'मानो अ अत्थसारो अत्ति जात्याधुपेतेन साधुना कर्म वशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - 'के गोआवादी ? के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org