________________
आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १६३ ] माणावादी' त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- 'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगावे 'त्यादि ३, चतुर्थे तु 'भोगेसु' त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगि नामपायान् वक्ष्यति, सूत्रं च - 'थीहिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगनिस्साए 'त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम् – 'समुट्ठिए अनगारे' इत्यादि जाव परिव्वए' ५, षष्ठोद्देशके तु - 'लोए अमज्जिया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातियं' गाथातात्पर्यार्थः ॥
नामनिष्पन्ने तु निक्षेपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोर्निक्षेपः कार्यः, सूत्रालापक निष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेप्तव्यं तन्निर्युक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे -
८८
नि. [१६४ ] लोगस्स व विजयरस य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायव्वो जंमूलागं च संसारो ॥
वृ. कण्ठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकर्तिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्या दिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसोपचितव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलम् - आद्यं कारणं कषायाः कषः - संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकनाऽऽचष्टे -
नि. [१६५ ] लोगोत्तिय विजअत्ति य अज्झयणे लक्खणं तु निष्फण्णं । गुणमूलं ठाणंतिय सुत्तालावे य निष्कण्णं ॥
वृ. कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायाल्लोकविजययोर्निक्षेपमाह - नि. [ १६६ ] लोगस्स य निक्खेवी अट्टविहो छव्विहो उ विजयस्स ।
भावे कसायलोगो अहिगारो तस्स विजएणं ।।
वृ. तत्र लोक्यत इति लोकः, 'लोकृ दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया मिति धञ्, स च धर्म्माधर्म्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा - नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छव्विहो उ विजयरस' त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह- 'भावे कसायलोगो' त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह- 'अहिगारो तस्स विजएणं' ति अधिकारो व्यापारः, तस्य औदयिकभावकषायलोकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org